Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
भुजगतल्पगतं घनसुन्दरं
गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १ ॥
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाश्रितवामकलेबरं
भजत रे मनुजाः कमलापतिम् ॥ २ ॥
किमु जपैश्च तपोभिरुताध्वरै-
-रपि किमुत्तमतीर्थनिषेवणैः ।
किमुत शास्त्रकदम्बविलोकनै-
-र्भजत रे मनुजाः कमलापतिम् ॥ ३ ॥
मनुजदेहमिमं भुवि दुर्लभं
समधिगम्य सुरैरपि वाञ्छितम् ।
विषयलम्पटतामपहाय वै
भजत रे मनुजाः कमलापतिम् ॥ ४ ॥
न वनिता न सुतो न सहोदरो
न हि पिता जननी न च बान्धवः ।
व्रजति साकमनेन जनेन वै
भजत रे मनुजाः कमलापतिम् ॥ ५ ॥
सकलमेव चलं सचराचरं
जगदिदं सुतरां धनयौवनम् ।
समवलोक्य विवेकदृशा द्रुतं
भजत रे मनुजाः कमलापतिम् ॥ ६ ॥
विविधरोगयुतं क्षणभङ्गुरं
परवशं नवमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकं
भजत रे मनुजाः कमलापतिम् ॥ ७ ॥
मुनिवरैरनिशं हृदि भावितं
शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८ ॥
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति यस्तु समाहितचेतसा
व्रजति विष्णुपदं स नरो ध्रुवम् ॥ ९ ॥
इति श्रीमत्परमहंस स्वामि ब्रह्मानन्द विरचितं कमलापत्यष्टकम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.