Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
जगदादिमनादिमजं पुरुषं
शरदम्बरतुल्यतनुं वितनुम् ।
धृतकञ्जरथाङ्गगदं विगदं
प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥
कमलाननकञ्जरतं विरतं
हृदि योगिजनैः कलितं ललितम् ।
कुजनैस्सुजनैरलभं सुलभं
प्रणमामि रमाधिपतिं तमहम् ॥ २ ॥
मुनिबृन्दहृदिस्थपदं सुपदं
निखिलाध्वरभागभुजं सुभुजम् ।
हृतवासवमुख्यमदं विमदं
प्रणमामि रमाधिपतिं तमहम् ॥ ३ ॥
हृतदानवदृप्तबलं सुबलं
स्वजनास्तसमस्तमलं विमलम् ।
समपास्त गजेन्द्रदरं सुदरं
प्रणमामि रमाधिपतिं तमहम् ॥ ४ ॥
परिकल्पितसर्वकलं विकलं
सकलागमगीतगुणं विगुणम् ।
भवपाशनिराकरणं शरणं
प्रणमामि रमाधिपतिं तमहम् ॥ ५ ॥
मृतिजन्मजराशमनं कमनं
शरणागतभीतिहरं दहरम् ।
परितुष्टरमाहृदयं सुदयं
प्रणमामि रमाधिपतिं तमहम् ॥ ६ ॥
सकलावनिबिम्बधरं स्वधरं
परिपूरितसर्वदिशं सुदृशम् ।
गतशोकमशोककरं सुकरं
प्रणमामि रमाधिपतिं तमहम् ॥ ७ ॥
मथितार्णवराजरसं सरसं
ग्रथिताखिललोकहृदं सुहृदम् ।
प्रथिताद्भुतशक्तिगणं सुगणं
प्रणमामि रमाधिपतिं तमहम् ॥ ८ ॥
सुखराशिकरं भवबन्धहरं
परमाष्टकमेतदनन्यमतिः ।
पठतीह तु योऽनिशमेव नरो
लभते खलु विष्णुपदं स परम् ॥ ९ ॥
इति श्रीपरमहंसस्वामि ब्रह्मानन्दविरचितं श्रीरमापत्यष्टकम् ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.