Devi Narayaniyam Dasakam 8 – अष्टम दशकम् (८) – परमज्ञानोपदेशम्



अथाह कृष्णः शृणु चिन्तयाऽलं
गृहाश्रमस्ते न च बन्धकृत्स्यात् ।
बन्धस्य मुक्तेश्च मनो हि हेतु-
-र्मनोजयार्थं भज विश्वधात्रीम् ॥ ८-१ ॥

यस्याः प्रसादे सफलं समस्तं
यदप्रसादे विफलं समस्तम् ।
माहात्म्यमस्या विदितं जगत्सु
मया कृतं भागवतं शृणु त्वम् ॥ ८-२ ॥

विष्णुर्जगत्येकसमुद्रलीने
बालः शयानो वटपत्र एकः ।
स्वबालताहेतुविचारमग्नः
शुश्राव कामप्यशरीरिवाचम् ॥ ८-३ ॥

सनातनं सत्यमहं मदन्य-
-त्सत्यं न च स्यादहमेव सर्वम् ।
श्रुत्वेदमुन्मीलितदृष्टिरेष
स्मिताननां त्वां जननीं ददर्श ॥ ८-४ ॥

चतुर्भुजा शङ्खगदारिपद्म-
-धरा कृपाद्यैः सह शक्तिजालैः ।
स्थिता जलोपर्यमलाम्बरा त्वं
प्रहृष्टचित्तं हरिमेवमात्थ ॥ ८-५ ॥

किं विस्मयेनाच्युत विस्मृताऽहं
त्वया पराशक्तिमहाप्रभावात् ।
सा निर्गुणा वाङ्मनसोरगम्या
मां सात्विकीं शक्तिमवेहि लक्ष्मीम् ॥ ८-६ ॥

श्रुतस्त्वया यस्त्वशरीरिशब्दो
हिताय ते देव तया स उक्तः ।
अयं हि सर्वश्रुतिशास्त्रसारो
मा विस्मरेमं हृदि रक्षणीयम् ॥ ८-७ ॥

नातः परं ज्ञेयमवेहि किञ्चि-
-त्प्रियोऽसि देव्याः शृणु मे वचस्त्वम् ।
त्वन्नाभिपद्माद्द्रुहिणो भवेत्स
कर्ता जगत्पालय तत्समस्तम् ॥ ८-८ ॥

भ्रूमध्यतः पद्मभवस्य कोपा-
-द्रुद्रो भविष्यन् सकलं हरेच्च ।
देवीं सदा संस्मर तेऽस्तु भद्र-
-मेवं निगद्याशु तिरोदधाथ ॥ ८-९ ॥

हरेरिदं ज्ञानमजस्य लब्ध-
-मजात्सुरर्षेश्च ततो ममापि ।
मया त्विदं विस्तरतः सुतोक्तं
यत्सूरयो भागवतं वदन्ति ॥ ८-१० ॥

देव्या महत्त्वं खलु वर्ण्यतेऽत्र
यद्भक्तिमाप्तस्य गृहे न बन्धः ।
यद्भक्तिहीनस्त्वगृहेऽपि बद्धो
राजाऽपि मुक्तो जनको गृहस्थः ॥ ८-११ ॥

विदेहराजं तमवाप्य पृष्ट्वा
स्वधर्मशङ्काः परिहृत्य धीरः ।
फलेष्वसक्तः कुरु कर्म तेन
कर्मक्षयः स्यात्तव भद्रमस्तु ॥ ८-१२ ॥

श्रुत्वेति सद्यः शुक आश्रमात्स
प्रस्थाय वैदेहपुरं समेत्य ।
प्रत्युद्गतः सर्वजनैर्नृपाय
न्यवेदयत्स्वागमनस्य हेतुम् ॥ ८-१३ ॥

गृहस्थधर्मस्य महत्त्वमस्मा-
-द्विज्ञाय धीमान् स शुको निवृत्तः ।
पित्राश्रमं प्राप्य सुतां पितृणां
व्यासेऽतिहृष्टे गृहिणीं चकार ॥ ८-१४ ॥

उत्पाद्य पुत्रांश्चतुरः सुतां च
गृहस्थधर्मान् विधिनाऽऽचरन् सः ।
प्रदाय चैनां मुनयेऽणुहाय
बभूव काले कृतसर्वकृत्यः ॥ ८-१५ ॥

हित्वाऽऽश्रमं तातमपीशशैल-
-शृङ्गे तपस्वी सहसोत्पतन् खे ।
बभौ स भास्वानिव तद्वियोग-
-खिन्नं शिवो व्यासमसान्त्वयच्च ॥ ८-१६ ॥

सर्वत्र शङ्काकुलमेव चित्तं
ममेह विक्षिप्तमधीरमार्तम् ।
कर्तव्यमूढोऽस्मि सदा शिवे मां
धीरं कुरु त्वं वरदे नमस्ते ॥ ८-१७ ॥

नवम दशकम् (९) – भुवनेश्वरीदर्शनम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed