Devi Narayaniyam Dasakam 9 – नवम दशकम् (९) – भुवनेश्वरीदर्शनम्


एकार्णवेऽस्मिन् जगति प्रलीने
दैत्यौ हरिर्ब्रह्मवधोद्यतौ तौ ।
जघान देवि त्वदनुग्रहेण
त्वदिच्छयैवागमदत्र रुद्रः ॥ ९-१ ॥

एको विमानस्तरसाऽऽगतः खा-
-त्त्रिमूर्त्यविज्ञातगतिस्त्वदीयः ।
त्वत्प्रेरिता आरुरुहुस्तमेते
स चोत्पतन् व्योम्नि चचार शीघ्रम् ॥ ९-२ ॥

वैमानिकाश्चोद्गतयः सशक्रं
दिवं सपद्मोद्भवसत्यलोकम् ।
सरुद्रकैलासममी सविष्णु-
-वैकुण्ठमप्युत्पुलका अपश्यन् ॥ ९-३ ॥

अदृष्टपूर्वानितरांस्त्रिमूर्तीन्
स्थानानि तेषामपि दृष्टवन्तः ।
त्रिमूर्तयस्ते च विमोहमापुः
प्राप्तो विमानश्च सुधासमुद्रम् ॥ ९-४ ॥

त्वद्भ्रूलतालोलतरङ्गमालं
त्वदीयमन्दस्मितचारुफेनम् ।
त्वन्मञ्जुमञ्जीरमृदुस्वनाढ्यं
त्वत्पादयुग्मोपमसौख्यदं च ॥ ९-५ ॥

तन्मध्यतस्ते ददृशुर्विचित्र-
-प्राकारनानाद्रुलतापरीतम् ।
स्थानं मणिद्वीपमदृष्टपूर्वं
क्रमाच्छिवे त्वां च सखीसमेताम् ॥ ९-६ ॥

ज्ञात्वा द्रुतं त्वां हरिराह धात-
-स्त्रिनेत्र धन्या वयमद्य नूनम् ।
सुधासमुद्रोऽयमनल्पपुण्यैः
प्राप्या जगन्मातृनिवासभूमिः ॥ ९-७ ॥

सा दृश्यते रागिजनैरदृश्या
मञ्चे निषण्णा बहुशक्तियुक्ता ।
एषैव दृक् सर्वमिदं च दृश्य-
-महेतुरेषा खलु सर्वहेतुः ॥ ९-८ ॥

बालः शयानो वटपत्र एक
एकार्णवेऽपश्यमिमां स्मितास्याम् ।
ययैव मात्रा परिलालितोऽह-
-मेनां समस्तार्तिहरां व्रजेम ॥ ९-९ ॥

रुध्यामहे द्वारि यदि स्तुवाम-
-स्तत्र स्थिता एव वयं महेशीम् ।
इत्यच्युतेनाभिहिते विमान-
-स्त्वद्गोपुरद्वारमवाप देवि ॥ ९-१० ॥

आयाम्यहं चित्तनिरोधरूप-
-विमानतस्ते पदमद्वितीयम् ।
न केनचिद्रुद्धगतो भवानि
त्वामेव मातः शरणं व्रजामि ॥ ९-११ ॥

दशम दशकम् (१०) – शक्तिप्रदानम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed