Vasishta Krita Parameshwara Stuti – श्री परमेश्वर स्तुतिः (वसिष्ठ कृतम्)


लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात् ॥ १ ॥

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय व्योमलिङ्गाय वै नमः ॥ २ ॥

नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ ३ ॥

नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ४ ॥

नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥ ५ ॥

नमोऽहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः ।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ॥ ६ ॥

नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।
नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥ ७ ॥

नमस्ते भवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।
नमोऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः ॥ ८ ॥

नमो वायूर्ध्वलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय वै नमः ॥ ९ ॥

नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने ॥ १० ॥

दिश नः परमं योगमपत्यं मत्समं तथा ।
ब्रह्म चैवाक्षयं देव शमं चैव परं विभो ।
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥ ११ ॥

अग्निरुवाच ।
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा ।
वसिष्ठाय वरं दत्वा तत्रैवान्तरधीयत ॥ १२ ॥

इत्याग्ने महापुराणे सप्तदशाधिकद्विशततमोऽध्याये वसिष्ठकृत परमेश्वर स्तुतिः ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed