Sanghila Krita Uma Maheswara Ashtakam – उममहेश्वराष्टकम् (सङ्घिल कृतम्)
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
पितामहशिरच्छेदप्रवीणकरपल्लव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ १ ॥
निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २ ॥
शैलराजस्यजामातश्शशिरेखावतंसक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ३ ॥
शैलराजात्मजे मातश्शातकुम्भनिभप्रभे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४ ॥
भूतनाथ पुराराते भुजङ्गामृतभूषण ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ५ ॥
पादप्रणतभक्तानां पारिजातगुणाधिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६ ॥
हालास्येश दयामूर्ते हालाहललसद्गल ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर ॥ ७ ॥
नितम्बिनि महेशस्य कदम्बवननायिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८ ॥
इति श्रीहालास्यमाहात्म्ये सङ्घिलकृतं उमामहेश्वराष्टकम् ।