Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय ।
पृथ्वीरधाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ १ ॥
भक्तार्तिभञ्जन पराय परात्पराय
कालाभ्रकान्ति गरलाङ्कितकन्धराय ।
भूतेश्वराय भुवनत्रयकारणाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ २ ॥
भूदारमूर्ति परिमृग्य पदाम्बुजाय
हंसाब्जसम्भवसुदूर सुमस्तकाय ।
ज्योतिर्मय स्फुरितदिव्यवपुर्धराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ३ ॥
कादम्बकानननिवास कुतूहलाय
कान्तार्धभाग कमनीयकलेबराय ।
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ४ ॥
विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्टविदितात्म सुवैभवाय ।
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ५ ॥
सम्पत्प्रदाय सकलागम मस्तकेषु
सङ्घोषितात्म विभवाय नमश्शिवाय ।
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ६ ॥
गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरद्भुजगमण्डलमण्डिताय ।
गन्धर्व किन्नर सुगीतगुणात्मकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ७ ॥
साणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरस्स्वयमभूत्परमेश्वरो यः ।
तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ८ ॥
गीर्वाणदेशिकगिरामपि दूरगं य-
द्वक्तुं महत्त्वमिह को भवतः प्रवीणः ।
शम्भो क्षमस्व भगवच्चरणारविन्द-
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९ ॥
इति श्रीहालास्यमाहात्म्ये वरुणकृत शिवस्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.