Sri Vishnu Mahimna Stotram – श्री विष्णु महिम्नः स्तोत्रम्

महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथनु कथम् ।
विजानीयामद्धा नलिननयनात्मीयवचसो
विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १ ॥

यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परे-
ऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो
मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २ ॥

शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं
तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।
दिनेशं चैवामुं तव नयनमूचुस्तु निगमा-
स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥ ३ ॥

क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः
क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४ ॥

हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना
द्रुतं मात्स्यं धृत्वा वपुरजरशङ्कासुरमथो ।
क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे-
रशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् ॥ ५ ॥

निमज्जन्तं वार्धौ नगवरमुपालोक्यसहसा
हितार्थं देवानां कमठवपुषा विश्वगहनम् ।
पयोराशिं पृष्ठे तमजित सलीलं धृतवतो
जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥ ६ ॥

हिरण्याक्षः क्षोणीमविशदसुरो नक्रनिलयं
समादायामर्त्यैः कमलजमुखैरम्बरगतैः ।
स्तुतेनानन्तात्मन्नचिरमतिभाति स्म विधृता
त्वया दम्ष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥ ७ ॥

हरिः क्वासीत्युक्ते दनुजपतिनाऽपूर्य निखिलं
जगन्नादैः स्तम्भान्नरहरिशरीरेण करजैः ।
समुत्पत्याऽऽशूरावसुरवरमादारितवत-
स्तवाख्याता भूमाकिमु जगति नो सर्वगतता ॥ ८ ॥

विलोक्याजं द्वार्गं कपटलघुकायं सुररिपु-
र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् ।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं
बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥ ९ ॥

समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं
हतं बाणै रोषाद्गुरुतरमुपादाय परशुम् ।
विना क्षत्रं विष्णो क्षितितलमशेषं कृतवसो-
ऽसकृत्किं भूभारोद्धरणपटुता ते न विदिता ॥ १० ॥

समाराध्योमेशं त्रिभुवनमिदं वासवमुखं
वशे चक्रे चक्रिन्नगणयदनीशं जगदिदम् ।
गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं
न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥ ११ ॥

क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता
क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् ।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभव-
श्चरित्रं ते नूनं शरणद विमोहाय कुधियाम् ॥ १२ ॥

न हिंस्यादित्येद्ध्रुवमवितथं वाक्यमबुधै-
रथाग्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् ।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः
समृद्धिर्नीचानां नयकर हि दुःखाय जगतः ॥ १३ ॥

विभागे वर्णानां निगमनिचये चाऽवनितले
विलुप्ते सञ्जातो द्विजवरगृहे शम्भलपुरे ।
समारुह्याश्वं स्वं लसदसिकरो म्लेच्छनिकरा-
न्निहन्ताऽस्युन्मत्तान्किल कलियुगान्ते युगपते ॥ १४ ॥

गभीरे कासारे जलचरवराकृष्टचरणो
रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो
गतः स्वर्गं स्थानं भवति विपदां ते किमु जनः ॥ १५ ॥

सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा-
वथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम् ।
ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा
त्वया ते सार्वज्ञ्यं प्रथितममरेशेह किमु नो ॥ १६ ॥

समाविद्धो मातुर्वचनविशिखैराशु विपिनं
तपश्चक्रे गत्वा तव परमतोषाय परमम् ।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि
किमस्त्यस्मिन्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७ ॥

वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपतिः
भ्रमन्लोकान्सर्वान् चरणमुपयातोऽथ दनुजः ।
स्वयं भस्मीभूतस्तव वचनभङ्गोद्गतमतिः
रमेशाहो माया तव दुरनुमेयाऽखिलजनैः ।१८ ॥

हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजय्यैस्तु नयतः
कटाक्षैः संमोहं युवतिपरवेषेण दितिजान् ।
समग्रं पीयूषं सुभग सुरपूगाय ददतः
समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥ १९ ॥

समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा
सभायां सर्वात्मंस्तव चरणमुच्चैरुपगता ।
समक्षं सर्वेषामभवदचिरं चीरनिचयः
स्मृतेस्ते साफल्यं नयनविषयं नो किमु सताम् ॥ २० ॥

वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे
गवां लोकं लोकं फणिनिलयपातालमितरे ।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां
न मन्ये तत् स्थानं त्वहमिह च यत्रासि न विभो ॥ २१ ॥

शिवोऽहं रुद्राणामहममरराजो दिविषदां
मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये
न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥ २२ ॥

शिरो नाको नेत्रे शशिदिनकरावम्बरमुरो
दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला ।
अकूपारो वस्तिश्चरणमपि पातालमिति वै
स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥ २३ ॥

शरीरं वैकुण्ठं हृदयनलिनं वाससदनं
मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता ।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो
न पश्यत्यज्ञा त्वामिह बहिरहो याति जनता ॥ २४ ॥

सुघोरं कान्तारं विशति च तटाकं सुगहनं
तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः ।
प्रसूनार्थं चेतोम्बुजममलमेकं त्वयि विभो
समर्प्याज्ञस्तूर्णं बत न च सुखं विन्दति जनः ॥ २५ ॥

कृतैकान्तावासा विगतनिखिलाशाः शमपरा
जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः ।
परं ज्योतिः पश्यन्त्यनघ यदि पश्यन्तु मम तु
श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥ २६ ॥

कदा गङ्गोत्तुङ्गाऽमलतरतरङ्गाच्च पुलिने
वसन्नाशापाशादखिलखलदाशादपगतः ।
अये लक्ष्मीकान्ताम्बुजनयन तातामरपते
प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम् ॥ २७ ॥

कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे
द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।
क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं
स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥ २८ ॥

सुधापानं ज्ञानं न च विपुलदानं न निगमो
न यागो नो योगो न च निखिलभोगोपरमणम् ।
जपो नो नो तीर्थं व्रतमिह न चोग्रं त्वयि तपो
विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥ २९ ॥

नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमः संश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।
नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन्पुनरपि पुनस्ते मम नमः ॥ ३० ॥ [** नमस्ते **]

कणान्कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवने-
स्तथाशेषान्पांसूनमित कलयेच्चापि तु जनः ।
नभः पिण्डीकुर्यादचिरमपि चेच्चर्मवदिदं
तथापीशानस्ते कलयितुमलं नाखिलगुणान् ॥ ३१ ॥

क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां
विभो ते मे चेतः क्व च विविधतापाहतमिदम् ।
मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो
गृहाणैतच्छ्रद्धार्पितमिह न हेयं हि महताम् ॥ ३२ ॥

इति हरिस्तवनं सुमनोहरं
परमहंसजनेन समीरितम् ।
सुगमसुन्दरसारपदास्पदं
तदिदमस्तु हरेरनिशं मुदे ॥ ३३ ॥

गदारथाङ्गाम्बुजकम्बुधारिणो
रमासमाश्लिष्टतनोस्तनोतु नः ।
बिलेशयाधीशशरीरशायिनः
शिवं स्तवोऽजस्रमयं परं हरेः ॥ ३४ ॥

पठेदिमं यस्तु नरः परं स्तवं
समाहितोऽघौघघनप्रभञ्जनम् ।
स विन्दतेऽत्राखिलभोगसम्पदो
महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५ ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीविष्णुमहिम्नः स्तोत्रम् ।

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Download Stotra Nidhi mobile app