Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो
विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम् ।
विजानीयामद्धा नलिननयनात्मीयवचसो
विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १ ॥
यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परे-
-ऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे ।
तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो
मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २ ॥
शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं
तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः ।
दिनेशं चैवामुं तव नयनमूचुस्तु निगमा-
-स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥ ३ ॥
क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः
क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः ।
क्वचिद्बुद्धः कल्की विहरसि कुभारापहृतये
स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४ ॥
हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना
द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो ।
क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे-
-रशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् ॥ ५ ॥
निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा
हितार्थं देवानां कमठवपुषाविश्य गहनम् ।
पयोराशिं पृष्ठे तमजित सलीलं धृतवतो
जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥ ६ ॥
हिरण्याक्षः क्षोणीमविशदसुरो नक्रनिलयं
समादायामर्त्यैः कमलजमुखैरम्बरगतैः ।
स्तुतेनानन्तात्मन्नचिरमवभाति स्म विधृता
त्वया दंष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥ ७ ॥
हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्यनिखिलं
जगन्नादैः स्तम्भान्नरहरिशरीरेण करजैः ।
समुत्पत्याशूरस्यसुरवरमादारितवत-
-स्तव ख्याता भूमन् किमु जगति नो सर्वगतता ॥ ८ ॥
विलोक्याऽजं द्वार्गं कपटलघुकायं सुररिपु-
-र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम् ।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं
बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥ ९ ॥
समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं
हतं बाणैः रोषाद्गुरुतरमुपादाय परशुम् ।
विना क्षत्रं विष्णो क्षितितलमशेषं कृतवसो-
-ऽसकृत् किं भूभारोद्धरणपटुता ते न विदिता ॥ १० ॥
समाराध्योमेशं त्रिभुवनमिदं वासवमुखं
वशे चक्रे चक्रिन्नगणयदनिशं जगदिदम् ।
गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं
न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो ॥ ११ ॥
क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता
क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम् ।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठविभव-
-श्चरित्रं ते नूनं शरणद विमोहाय कुधियाम् ॥ १२ ॥
न हिंस्यादित्येव ध्रुवमवितथं वाक्यमबुधै-
-र्यथाग्नीषोमीयं पशुमिति तु विप्रैर्निगदितम् ।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः
समृद्धिर्नीचानां नयकर हि दुःखाय जगतः ॥ १३ ॥
विभागे वर्णानां निगमनिचये चावनितले
विलुप्ते सञ्जातो द्विजवरगृहे शम्भलपुरे ।
समारुह्याश्वं त्वं लसदसिकरो म्लेच्छनिकरान्
निहन्तास्युन्मत्तान् किल कलियुगान्ते युगपते ॥ १४ ॥
गभीरे कासारे जलचरवराकृष्टचरणो
रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो
गतः स्वर्गं स्थानं भवति विपदां ते किमु जनः ॥ १५ ॥
सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा-
-वथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम् ।
ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा
त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥ १६ ॥
समाविद्धो मातुर्वचनविशिखैराशु विपिनं
तपः कृत्वा गत्वा तव परम तोषाय परमम् ।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि
किमस्त्यस्मिन्लोके त्वयि वरद तुष्टे दुरधिगम् ॥ १७ ॥
वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपति-
-र्भ्रमन्लोकान् सर्वान् शरणमुपयातेऽथ दनुजः ।
स्वयं भस्मीभूतस्तव वचनभङ्ग्युद्गतमतिः
रमेश हो माया तव दुरनुमेयाऽखिलजनैः ।१८ ॥
हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजय्यैस्तु नयतः
कटाक्षैः सम्मोहं युवतिपरवेषेण दितिजान् ।
समग्रं पीयूषं सुभगसुरपूगायददतः
समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः ॥ १९ ॥
समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा
सभायां सर्वात्मंस्तव चरणमुच्चैरुपगता ।
समक्षं सर्वेषामभवदचिरं चीरनिचयं
स्मृतेस्ते साफल्यं नयनविषयं नो किमु सताम् ॥ २० ॥
वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे
गवां लोकं लोकं फणिनिलयपातालमितरे ।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां
न मन्ये तत् स्थानं त्वहमिह च यत्रासि न विभो ॥ २१ ॥
शिवोऽहं रुद्राणामहममरराजो दिविषदां
मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम् ।
कुबेरो यक्षाणामिति तव वचो मन्दमतये
न जाने तज्जातं जगति ननु यन्नासि भगवन् ॥ २२ ॥
शिरो नाको नेत्रे शशिदिनकरावम्बरमुरो
दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला ।
अकूपारो वस्तिश्चरणमपि पातालमिति वै
स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥ २३ ॥
शरीरं वैकुण्ठं हृदयनलिनं वाससदनं
मनोवृत्तिस्तार्क्ष्यो मतिरियमथो सागरसुता ।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो
न पश्यंस्त्यज्ञास्त्वमिह बहिरहो याति जनता ॥ २४ ॥
सुघोरं कान्तारं विशति च तटाकं सुगहनं
तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः ।
प्रसूनार्थं चेतोऽम्बुजममलमेकं त्वयि विभो
समर्प्याज्ञस्तूर्णं बत न च सुखं विन्दति जनः ॥ २५ ॥
कृतैकान्तावासा विगतनिखिलाशाः शमपराः
जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः ।
परं ज्योतिः पश्यन्त्यनघमभिपश्यन्तु मम तु
श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥ २६ ॥
कदा गङ्गोत्तुङ्गाऽमलतरतरङ्गाच्च पुलिने
वसन्नाशापाशादखिलखलदाशादपगतः ।
अये लक्ष्मीकान्ताम्बुजनयन ताताऽमरपते
प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम् ॥ २७ ॥
कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे
द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।
क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं
स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥ २८ ॥
सुधापानं ज्ञानं न च विपुलदानं न निगमो
न यागो नो योगो न च निखिलभोगोपरमणम् ।
जपो नो नो तीर्थव्रतमिह न चोग्रं त्वयि तपो
विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥ २९ ॥
नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो
नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः ।
नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो
नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ॥ ३० ॥
कणान् कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवने-
-स्तथाऽशेषान् पांसूनमित कलयेच्चापि तु जनः ।
नभः पिण्डीकुर्यादचिरमपिचेच्चर्मवदिदं
तथापीशासौ ते कलयितुमलं नाखिलगुणान् ॥ ३१ ॥
क्व माहात्म्यं सीमोज्झितमविषयं वेदवचसां
विभो मेऽतो चेतः क्व च विविधतापाहतमिदम् ।
मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो
गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥ ३२ ॥
इति हरिस्तवनं सुमनोहरं
परमहंसजनेन समीरितम् ।
सुगमसुन्दरसारपदास्पदं
तदिदमस्तु हरेरनिशं मुदे ॥ ३३ ॥
गदारथाङ्गाम्बुजकम्बुधारिणो
रमासमाश्लिष्टतनोस्तनोतु नः ।
बिलेशयाधीशशरीरशायिनः
शिवस्तवोऽजस्रमयं परं हरेः ॥ ३४ ॥
पठेदिमं यस्तु नरः परस्तवं
समाहितोऽघौघघनप्रभञ्जनम् ।
स विन्दतेऽत्राखिल भोगसम्पदो
महीयते विष्णुपदे ततो ध्रुवम् ॥ ३५ ॥
इति श्रीमत्परमहंसस्वामि ब्रह्मानन्द विरचितं श्री विष्णु महिम्नः स्तोत्रम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

