Sri Vishnu Kavacham – श्री विष्णु कवच स्तोत्रम्


ध्यानम् –
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

कवचम् –
ओम् । पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥ १ ॥

ऊर्ध्वमानन्दकृत् पातु अधस्ताच्छार्ङ्गभृत् सदा ।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः ॥ २ ॥

जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥ ३ ॥

पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥ ४ ॥

करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥ ५ ॥

नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः ।
कपोले पातु वैकुण्ठो जिह्वां पातु दयानिधिः ॥ ६ ॥

आस्यं दशास्यहन्ताऽव्यान्नेत्रे मे हरिलोचनः ।
भ्रुवौ मे पातु भूमीशो ललाटं मे सदाऽच्युतः ॥ ७ ॥

मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥ ८ ॥

पिशाचाग्नि जलेभ्यो मामापद्भ्यो पातु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥ ९ ॥

इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् ।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥ १० ॥

इति श्री विष्णु कवचम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Vishnu Kavacham – श्री विष्णु कवच स्तोत्रम्

Leave a Reply

error: Not allowed