Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ॥
हरिद्रा गणपति पूजा पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री वाराही मातृका देवता अनुग्रह प्रसाद सिद्धिद्वारा सर्वशत्रुबाधा शान्त्यर्थं, मम सर्वारिष्ट निवृत्त्यर्थं, सर्वकार्य सिद्ध्यर्थं, श्री वाराही देवता प्रीत्यर्थं श्रीसूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहिता भव स्थापिता भव ।
सुप्रसन्नो भव वरदा भव ।
स्थिरासनं कुरु प्रसीद प्रसीद ।
नमस्तेऽस्तु महादेवि वरदे विश्वरक्षिणी ।
सान्निध्यं कुरु मे देवि जगन्मातः कृपापरे ॥
अस्मिन् बिम्बे श्रीवाराही देवतामावाहयामि स्थापयामि पूजयामि ।
ध्यानम् –
मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्भासितां
कोलास्यां शशिशेखरामचलया दंष्ट्रातले शोभिताम् ।
बिभ्राणां स्वकराम्बुजैरसिलतां चर्माऽसि पाशं सृणिं
वाराहीमनुचिन्तयेद्धयवरारूढां शुभालङ्कृतिम् ॥ १
विद्युद्रोचिर्हस्तपद्मैर्दधाना
पाशं शक्तिं मुद्गरं चाङ्कुशं च ।
नेत्रोद्भूतैर्वीतिहोत्रैस्त्रिनेत्रा
वाराही नः शत्रुवर्गं क्षिणोतु ॥ २
ओं श्रीवाराही देव्यै नमः ध्यायामि ।
आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
आगच्छ वरदे देवि दैत्यदर्पनिषूदिनी ।
पूजां गृहाण सुमुखी नमस्ते शङ्करप्रिये ॥
ओं श्रीवाराही देव्यै नमः आवाहयामि ।
आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अनेकरत्नसम्युक्तं नानामणिगणान्वितम् ।
मातः स्वर्णमयं दिव्यमानसं प्रतिगृह्यताम् ॥
ओं श्रीवाराही देव्यै नमः नवरत्न खचित सुवर्णसिंहासनं समर्पयामि ।
पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
गङ्गादि सर्वतीर्थेभ्यो मया प्रार्थनयाऽऽहृतम् ।
तोयमेतत्सुखं स्पर्श पाद्यर्थं प्रतिगृह्यताम् ॥
ओं श्रीवाराही देव्यै नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां
ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
गन्धपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया ।
गृहाण त्वं महादेवि प्रसन्ना भव सर्वदा ॥
ओं श्रीवाराही देव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒
श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये-
-ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
आचम्यतां त्वया देवि भक्तिर्मे ह्यचलां कुरु ।
ईप्सितां मे वरं देहि परत्र च परां गतिम् ॥
ओं श्रीवाराही देव्यै नमः मुखे आचमनीयं समर्पयामि ।
मधुपर्कम् –
कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥
ओं श्रीवाराही देव्यै नमः मधुपर्कं समर्पयामि ।
पञ्चामृत स्नानम् –
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करादि समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीवाराही देव्यै नमः पञ्चामृतस्नानं समर्पयामि ।
स्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो
वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु
मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
जाह्नवी तोयमानीतं शुभं कर्पूरसम्युतम् ।
स्नापयामि सुरश्रेष्ठे त्वां पुत्रादि फलप्रदान् ॥
ओं श्रीवाराही देव्यै नमः शुद्धोदकस्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।
वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
वस्त्रं च सोमदेवत्यं लज्जायास्तु निवारणम् ।
मया निवेदितं भक्त्या गृहाण परमेश्वरी ॥
ओं श्रीवाराही देव्यै नमः वस्त्रयुग्मं समर्पयामि ।
आभरणम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥
स्वभाव सुन्दराङ्गार्थे नानाशक्त्याश्रिते शिवे ।
भूषणानि विचित्राणि कल्पयाम्यमरार्चिते ॥
ओं श्रीवाराही देव्यै नमः आभरणानि समर्पयामि ।
गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
परमानन्द सौभाग्य परिपूर्ण दिगन्तरे ।
गृहाण परमं गन्धं कृपया परमेश्वरि ॥
ओं श्रीवाराही देव्यै नमः गन्धं समर्पयामि ।
कुङ्कुमम् –
कुङ्कुमं कान्तिदं दिव्यं कामिनी कामसम्भवम् ।
कुङ्कुमेनार्चिते देवि प्रसीद परमेश्वरि ॥
ओं श्रीवाराही देव्यै नमः कुङ्कुमं समर्पयामि ।
कज्जलम् –
चक्षुभ्यां कज्जलं रम्यं सुभगे शक्तिकारिके ।
कर्पूरज्योतिरुत्पन्नं गृहाण परमेश्वरि ॥
ओं श्रीवाराही देव्यै नमः कज्जलं समर्पयामि ।
सौभाग्य सूत्रम् –
सौभाग्यसूत्रं वरदे सुवर्णमणिसम्युते ।
कण्ठे गृहाण देवेशि सौभाग्यं देहि मे सदा ॥
ओं श्रीवाराही देव्यै नमः सौभाग्य सूत्रं समर्पयामि ।
हरिद्राचूर्णम् –
स्वर्णाभममलं रम्यं पवित्रं शुभवर्धनम् ।
लक्ष्मीकरं च ते देवी हरिद्राचूर्णमर्पये ॥
ओं श्रीवाराही देव्यै नमः हरिद्राचूर्णं समर्पयामि ।
अक्षतान् –
रञ्जिता कुङ्कुमौघेन अक्षताश्चापि शोभनाः ।
ममैषां देवि दानेन प्रसन्नाभवमीश्वरी ॥
ओं श्रीवाराही देव्यै नमः अक्षतान् समर्पयामि ।
पुष्पमाला –
सुरभिं पुष्पनिचयैर्ग्रथितं शुभमालिकाम् ।
ददामि तव शोभार्थं गृहाण परमेश्वरि ॥
ओं श्रीवाराही देव्यै नमः पुष्पमाला समर्पयामि ।
पुष्पाणि –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
मन्दार पारिजातादि पाटली केतकानि च ।
जाती चम्पक पुष्पाणि गृहाण परमेश्वरी ॥
ओं श्रीवाराही देव्यै नमः पुष्पाणि समर्पयामि ।
अथाङ्ग पूजा –
सर्वदेवता पूज्यमानपादश्रियै नमः – पादौ पूजयामि ।
किरिचक्ररथारूढायै नमः – गुल्फौ पूजयामि ।
क्रियाशक्तिस्वरूपिण्यै नमः – जानुनी पूजयामि ।
कर्मप्रेरणरूपायै नमः – कटिं पूजयामि ।
कर्मफलदात्र्यै नमः – हृदयं पूजयामि ।
भक्तारिशमन्यै नमः – स्तनौ पूजयामि ।
हलमुसलाद्यायुधधारिण्यै नमः – बाहून् पूजयामि ।
निग्रहानुग्रहदक्षायै नमः – कण्ठं पूजयामि ।
कोलास्यायै नमः – मुखं पूजयामि ।
जगद्वर्तनकारणायै नमः – नासिकां पूजयामि ।
भक्तानुग्रहशीलिन्यै नमः – नेत्रे पूजयामि ।
इच्छाशक्तिरूपिण्यै नमः – कर्णौ पूजयामि ।
चन्द्रशेखरायै नमः – शिरः पूजयामि ।
शुभालङ्कृतये नमः – सर्वाण्यङ्गानि पूजयामि ।
अथ शक्ति पूजा –
ओं उच्चाटनी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं उच्चाटनेशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं शोषणी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं शोषणेशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं मारणे शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं मारणेशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं भीषणी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं भीषणेशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं त्रासनी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं त्रासनेशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं कम्पनी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं कम्पनेशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं आज्ञाविवर्तिनी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं आज्ञाविवर्तिनीशि शक्ति सेवितायै श्री वाराही देव्यै नमः ।
ओं वस्तुजातेश्वरी शक्ति सेवितायै श्री वाराही देव्यै नमः
ओं सर्वसम्पादनीश्वरी शक्ति सेवितायै श्री वाराही देव्यै नमः ।
षोडशशक्ति सेवितायै श्री वाराही देव्यै नमः ।
अथ अष्टोत्तरशतनाम पूजा –
श्री महावाराहि अष्टोत्तरशतनामावली पश्यतु ।
धूपम् –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
दशाङ्ग गुग्गुलं धूपं चन्दनागरु सम्युतम् ।
समर्पितं मया भक्त्या महादेवि प्रगृह्यताम् ॥
ओं श्रीवाराही देव्यै नमः धूपमाघ्रापयामि ।
दीपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
घृतवर्तिसमायुक्तं महातेज महोज्ज्वलम् ।
दीपं दास्यामि देवेशि सुप्रीता भव सर्वदा ॥
ओं श्रीवाराही देव्यै नमः दीपं दर्शयामि ।
नैवेद्यम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।
नैवेद्यं गृह्यतां देवि भक्तिर्मेह्यचलां कुरु ॥
ओं श्रीवाराही देव्यै नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ऋतुफलम् –
द्राक्षा खर्जूर कदली पनसाम्रकपित्यकम् ।
नारिकेलेक्षुजम्ब्वादि फलानि प्रतिगृह्यताम् ॥
ओं श्रीवाराही देव्यै नमः ऋतुफलं समर्पयामि ।
ताम्बूलम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
एलालवङ्ग कस्तूरी कर्पूरैः सुष्ठुवासिताम् ।
वीटिकां मुखवासार्थमर्पयामि सुरेश्वरि ॥
ओं श्रीवाराही देव्यै नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚-
-न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
नीराजनं सुमङ्गल्यं कर्पूरेण समन्वितम् ।
चन्द्रार्कवह्नि सदृशं महादेवि नमोऽस्तु ते ॥
ओं श्रीवाराही देव्यै नमः नीराजनं समर्पयामि ।
मन्त्रपुष्पम् –
ओं ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि वराहमुखि ऐं ग्लौं ऐं अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः ऐं ग्लौं ऐं सर्वदुष्ट प्रदुष्टानां सर्वेषां सर्व वाक् चित्त चक्षुर्मुख गति जिह्वा स्तम्भनं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्लौं ऐं ठः ठः ठः ठः हुं फट् स्वाहा ॥
ओं श्रीवाराही देव्यै नमः मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिण –
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरी ।
ओं श्रीवाराही देव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
नमः सर्वहितार्थायै जगदाधार हेतवे ।
साष्टाङ्गोऽयं प्रणामस्तु प्रयत्नेन मया कृतः ॥
ओं श्रीवाराही देव्यै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
प्रार्थना –
नमस्ते देवि देवेशि नमस्ते ईप्सितप्रदे ।
नमस्ते जगतां धात्रि नमस्ते भक्तवत्सले ॥
रसं रूपं च गन्धं च शब्दं स्पर्शं च योगिनी ।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।
पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥
ओं श्रीवाराही देव्यै नमः प्रार्थना नमस्कारान् समर्पयामि ।
सर्वोपचाराः –
ओं श्री वाराही देव्यै नमः छत्रं आच्छादयामि ।
ओं श्री वाराही देव्यै नमः चामरैर्वीजयामि ।
ओं श्री वाराही देव्यै नमः नृत्यं दर्शयामि ।
ओं श्री वाराही देव्यै नमः गीतं श्रावयामि ।
ओं श्री वाराही देव्यै नमः आन्दोलिकान्नारोहयामि ।
ओं श्री वाराही देव्यै नमः अश्वानारोहयामि ।
ओं श्री वाराही देव्यै नमः गजानारोहयामि ।
यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूपार्ह भोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥
ओं श्री वाराही देव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।
क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं परात्परे ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥
अनया मया कृतेन श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवती सर्वात्मिका श्री वाराही देवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं मातृपादोदकं शुभम् ॥
ओं श्रीवाराही देव्यै नमः प्रसादं शिरसा गृह्णामि ।
विसर्जनम् –
इदं पूजा मया देवि यथाशक्त्युपपादिताम् ।
रक्षार्थं त्वं समदाय व्रजस्थानमनुत्तमम् ॥
ओं श्रीवाराही देव्यै नमः यथास्थानमुद्वासयामि ।
ओं शान्तिः शान्तिः शान्तिः ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

