Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सूर्य उवाच ।
स्वानन्दभवनान्तस्थहर्म्यस्था गणपप्रिया ।
सम्योगस्वानन्दब्रह्मशक्तिः सम्योगरूपिणी ॥ १ ॥
अतिसौन्दर्यलावण्या महासिद्धिर्गणेश्वरी ।
वज्रमाणिक्यमकुटकटकादिविभूषिता ॥ २ ॥
कस्तूरीतिलकोद्भासिनिटिला पद्मलोचना ।
शरच्चाम्पेयपुष्पाभनासिका मृदुभाषिणी ॥ ३ ॥
लसत्काञ्चनताटङ्कयुगला योगिवन्दिता ।
मणिदर्पणसङ्काशकपोला काङ्क्षितार्थदा ॥ ४ ॥
ताम्बूलपूरितस्मेरवदना विघ्ननाशिनी ।
सुपक्वदाडिमीबीजरदना रत्नदायिनी ॥ ५ ॥
कम्बुवृत्तसमच्छायकन्धरा करुणायुता ।
मुक्ताभा दिव्यवसना रत्नकल्हारमालिका ॥ ६ ॥
गणेशबद्धमाङ्गल्या मङ्गला मङ्गलप्रदा ।
वरदाभयहस्ताब्जा भवबन्धविमोचिनी ॥ ७ ॥
सुवर्णकुम्भयुग्माभसुकुचा सिद्धिसेविता ।
बृहन्नितम्बा विलसज्जघना जगदीश्वरी ॥ ८ ॥
सौभाग्यजातशृङ्गारमध्यमा मधुरस्वना ।
दिव्यभूषणसन्दोहरञ्जिता ऋणमोचिनी ॥ ९ ॥
पारिजातगुणाधिक्यपदाब्जा परमात्मिका ।
सुपद्मरागसङ्काशचरणा चिन्तितार्थदा ॥ १० ॥
ब्रह्मभावमहासिद्धिपीठस्था पङ्कजासना ।
हेरम्बनेत्रकुमुदचन्द्रिका चन्द्रभूषणा ॥ ११ ॥
सचामरशिवावाणीसव्यदक्षिणवीजिता ।
भक्तरक्षणदाक्षिण्यकटाक्षा कमलासना ॥ १२ ॥
गणेशालिङ्गनोद्भूतपुलकाङ्गी परात्परा ।
लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्विता ॥ १३ ॥
वाणीकोटिसमायुक्तकोटिब्रह्मनिषेविता ।
लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजिता ॥ १४ ॥
गौरीकोटिसमायुक्तशम्भुकोटिसुसेविता ।
प्रभाकोटिसमायुक्तकोटिभास्करवन्दिता ॥ १५ ॥
भानुकोटिप्रतीकाशा चन्द्रकोटिसुशीतला ।
चतुष्षष्टिकोटिसिद्धिनिषेवितपदाम्बुजा ॥ १६ ॥
मूलाधारसमुत्पन्ना मूलबन्धविमोचनी ।
मूलाधारैकनिलया योगकुण्डलिभेदिनी ॥ १७ ॥
मूलाधारा मूलभूता मूलप्रकृतिरूपिणी ।
मूलाधारगणेशानवामभागनिवासिनी ॥ १८ ॥
मूलविद्या मूलरूपा मूलग्रन्थिविभेदिनी ।
स्वाधिष्ठानैकनिलया ब्रह्मग्रन्धिविभेदिनी ॥ १९ ॥
मणिपूरान्तरुदिता विष्णुग्रन्धिविभेदिनी ।
अनाहतैकनिलया रुद्रग्रन्धिविभेदिनी ॥ २० ॥
विशुद्धिस्थाननिलया जीवभावप्रणाशिनी ।
आज्ञाचक्रान्तरालस्था ज्ञानसिद्धिप्रदायिनी ॥ २१ ॥
ब्रह्मरन्ध्रैकनिलया ब्रह्मभावप्रदायिनी ।
षट्कोणाष्टदलयुतश्रीसिद्धियन्त्रमध्यगा ॥ २२ ॥
अन्तर्मुखजनानन्तफलदा शोकनाशिनी ।
अव्याजकरुणापूरपूरिता वसुधारिणी ॥ २३ ॥
दारिद्र्यनाशिनी लक्ष्मीः सर्वपापप्रणाशिनी ।
भुक्तिसिद्धिर्मुक्तिसिद्धिः सुधामण्डलमध्यगा ॥ २४ ॥
चिन्तामणिः सर्वसिद्धिः कमल वल्लभा शिवा ।
सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीर्वरप्रदा ॥ २५ ॥
रमा नन्दा महालक्ष्मीर्विभूतिर्भक्तिवर्धिनी ।
अष्टोत्तरशतं नाम्नां महासिद्धेरिदं वरम् ॥ २६ ॥
आज्ञया गणनाथस्य गणकेन प्रकीर्तितम् ।
यः पठेद्गाणपो भक्त्या पूजयेद्वा सुनामभिः ।
धर्ममर्थं च कामं च लब्ध्वा मोक्षमवाप्नुयात् ॥ २७ ॥
इति श्री सिद्धिदेवी अष्टोत्तरशतनाम स्तोत्रं सम्पूर्णम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.