Sri Siddhi Devi Ashtottara Shatanamavali – श्री सिद्धिदेवी अष्टोत्तरशतनामावली


ओं स्वानन्दभवनान्तस्थहर्म्यस्थायै नमः ।
ओं गणपप्रियायै नमः ।
ओं सम्योगस्वानन्दब्रह्मशक्त्यै नमः ।
ओं सम्योगरूपिण्यै नमः ।
ओं अतिसौन्दर्यलावण्यायै नमः ।
ओं महासिद्ध्यै नमः ।
ओं गणेश्वर्यै नमः ।
ओं वज्रमाणिक्यमकुटकटकादिविभूषितायै नमः ।
ओं कस्तूरीतिलकोद्भासिनिटिलायै नमः । ९

ओं पद्मलोचनायै नमः ।
ओं शरच्चाम्पेयपुष्पाभनासिकायै नमः ।
ओं मृदुभाषिण्यै नमः ।
ओं लसत्काञ्चनताटङ्कयुगलायै नमः ।
ओं योगिवन्दितायै नमः ।
ओं मणिदर्पणसङ्काशकपोलायै नमः ।
ओं काङ्क्षितार्थदायै नमः ।
ओं ताम्बूलपूरितस्मेरवदनायै नमः ।
ओं विघ्ननाशिन्यै नमः । १८

ओं सुपक्वदाडिमीबीजरदनायै नमः ।
ओं रत्नदायिन्यै नमः ।
ओं कम्बुवृत्तसमच्छायकन्धरायै नमः ।
ओं करुणायुतायै नमः ।
ओं मुक्ताभायै नमः ।
ओं दिव्यवसनायै नमः ।
ओं रत्नकल्हारमालिकायै नमः ।
ओं गणेशबद्धमाङ्गल्यायै नमः ।
ओं मङ्गलायै नमः । २७

ओं मङ्गलप्रदायै नमः ।
ओं वरदाभयहस्ताब्जायै नमः ।
ओं भवबन्धविमोचिन्यै नमः ।
ओं सुवर्णकुम्भयुग्माभसुकुचायै नमः ।
ओं सिद्धिसेवितायै नमः ।
ओं बृहन्नितम्बायै नमः ।
ओं विलसज्जघनायै नमः ।
ओं जगदीश्वर्यै नमः ।
ओं सौभाग्यजातशृङ्गारमध्यमायै नमः । ३६

ओं मधुरस्वनायै नमः ।
ओं दिव्यभूषणसन्दोहरञ्जितायै नमः ।
ओं ऋणमोचिन्यै नमः ।
ओं पारिजातगुणाधिक्यपदाब्जायै नमः ।
ओं परमात्मिकायै नमः ।
ओं सुपद्मरागसङ्काशचरणायै नमः ।
ओं चिन्तितार्थदायै नमः ।
ओं ब्रह्मभावमहासिद्धिपीठस्थायै नमः ।
ओं पङ्कजासनायै नमः । ४५

ओं हेरम्बनेत्रकुमुदचन्द्रिकायै नमः ।
ओं चन्द्रभूषणायै नमः ।
ओं सचामरशिवावाणीसव्यदक्षिणवीजितायै नमः ।
ओं भक्तरक्षणदाक्षिण्यकटाक्षायै नमः ।
ओं कमलासनायै नमः ।
ओं गणेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमः ।
ओं परात्परायै नमः ।
ओं लीलाकल्पितब्रह्माण्डकोटिकोटिसमन्वितायै नमः ।
ओं वाणीकोटिसमायुक्तकोटिब्रह्मनिषेवितायै नमः । ५४

ओं लक्ष्मीकोटिसमायुक्तविष्णुकोटिप्रपूजितायै नमः ।
ओं गौरीकोटिसमायुक्तशम्भुकोटिसुसेवितायै नमः ।
ओं प्रभाकोटिसमायुक्तकोटिभास्करवन्दितायै नमः ।
ओं भानुकोटिप्रतीकाशायै नमः ।
ओं चन्द्रकोटिसुशीतलायै नमः ।
ओं चतुष्षष्टिकोटिसिद्धिनिषेवितपदाम्बुजायै नमः ।
ओं मूलाधारसमुत्पन्नायै नमः ।
ओं मूलबन्धविमोचन्यै नमः ।
ओं मूलाधारैकनिलयायै नमः । ६३

ओं योगकुण्डलिभेदिन्यै नमः ।
ओं मूलाधारायै नमः ।
ओं मूलभूतायै नमः ।
ओं मूलप्रकृतिरूपिण्यै नमः ।
ओं मूलाधारगणेशानवामभागनिवासिन्यै नमः ।
ओं मूलविद्यायै नमः ।
ओं मूलरूपायै नमः ।
ओं मूलग्रन्थिविभेदिन्यै नमः ।
ओं स्वाधिष्ठानैकनिलयायै नमः । ७२

ओं ब्रह्मग्रन्धिविभेदिन्यै नमः ।
ओं मणिपूरान्तरुदितायै नमः ।
ओं विष्णुग्रन्धिविभेदिन्यै नमः ।
ओं अनाहतैकनिलयायै नमः ।
ओं रुद्रग्रन्धिविभेदिन्यै नमः ।
ओं विशुद्धिस्थाननिलयायै नमः ।
ओं जीवभावप्रणाशिन्यै नमः ।
ओं आज्ञाचक्रान्तरालस्थायै नमः ।
ओं ज्ञानसिद्धिप्रदायिन्यै नमः । ८१

ओं ब्रह्मरन्ध्रैकनिलयायै नमः ।
ओं ब्रह्मभावप्रदायिन्यै नमः ।
ओं षट्कोणाष्टदलयुत-श्रीसिद्धियन्त्रमध्यगायै नमः ।
ओं अन्तर्मुखजनानन्तफलदायै नमः ।
ओं शोकनाशिन्यै नमः ।
ओं अव्याजकरुणापूरपूरितायै नमः ।
ओं वसुधारिण्यै नमः ।
ओं दारिद्र्यनाशिन्यै नमः ।
ओं लक्ष्म्यै नमः । ९०

ओं सर्वपापप्रणाशिन्यै नमः ।
ओं भुक्तिसिद्ध्यै नमः ।
ओं मुक्तिसिद्ध्यै नमः ।
ओं सुधामण्डलमध्यगायै नमः ।
ओं चिन्तामणये नमः ।
ओं सर्वसिद्ध्यै नमः ।
ओं कमलायै नमः ।
ओं वल्लभायै नमः ।
ओं शिवायै नमः । ९९

ओं सिद्धलक्ष्म्यै नमः ।
ओं मोक्षलक्ष्म्यै नमः ।
ओं जयलक्ष्म्यै नमः ।
ओं वरप्रदायै नमः ।
ओं रमायै नमः ।
ओं नन्दायै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं विभूत्यै नमः ।
ओं भक्तिवर्धिन्यै नमः । १०८

इति श्री सिद्धिदेवी अष्टोत्तरशतनामावली ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed