Sri Shiva Navaratna Stava – श्री शिव नवरत्न स्तवः


बृहस्पतिरुवाच ।
नमो हराय देवाय महामाया त्रिशूलिने ।
तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ ॥

नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये ।
नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ ॥

नमः पराय रुद्राय सुपाराय नमो नमः ।
विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ ॥

नमो भक्तभवच्छेदकारणायाऽमलात्मने ।
कालकालाय कालाय कालातीताय ते नमः ॥ ४ ॥

जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः ।
नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ ५ ॥

नमः पर्वतराजेन्द्रकन्यकापतये नमः ।
योगानन्दाय योगाय योगिनां पतये नमः ॥ ६ ॥

प्राणायामपराणां तु प्राणरक्षाय ते नमः ।
मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७ ॥

नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने ।
सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने ॥ ८ ॥

नमः शिवायाद्भुतविक्रमाय ते
नमः शिवायाद्भुतविग्रहाय ते ।
नमः शिवायाखिलनायकाय ते
नमः शिवायामृतहेतवे नमः ॥ ९ ॥

सूत उवाच ।
य इदं पठते नित्यं स्तोत्रं भक्त्या सुसम्युतः ।
तस्य मुक्तिः करस्था स्याच्छङ्करप्रियकारणात् ॥ १० ॥

विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् ।
वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ ॥

तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः ।
पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२ ॥

इति श्रीस्कान्दे महापुराणे सूतसंहितायां बृहस्पतिकृत शिव नवरत्न स्तवः ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed