Sri Shiva Manasika Puja Stotram – शिवमानसिकपूजा स्तोत्रम्

अनुचितमनुलपितं मे त्वयि शंभो शिव तदागसश्शान्त्यै ।
अर्चां कथमपि विहितामङ्गीकुरु सर्वमङ्गलोपेत ॥ १ ॥

ध्यायामि कथमिव त्वां धीवर्त्मविदूर दिव्यमहिमानम् ।
आवाहनं विभोस्ते देवाग्र्य भवेत्प्रभो कुतः स्थानात् ॥ २ ॥

कियदासनं प्रकल्प्यं कृतासनस्येह सर्वतोऽपि सह ।
पाद्यं कुतोऽर्घ्यमपि वा पाद्यं सर्वत्रपाणिपादस्य ॥ ३ ॥

आचमनं ते स्यादधिभगवन् ते सर्वतोमुखस्य कथम् ।
मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादस्य ॥ ४ ॥

स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धस्य ।
वस्त्रेणापि न कार्यं देवाधिपते दिगंबरस्येह ॥ ५ ॥

स्फुरति हि सर्पाभरणं सर्वाङ्गे सर्वमङ्गलाकार ।
अतिवर्णाश्रमिणस्तेऽस्त्युपवीतेनेह कश्चिदुत्कर्षः ॥ ६ ॥

गन्धवती हि तनुस्ते गन्धाः किं नेश पौनरुक्ताय ।
पुष्कलफलदातारं पुष्करकुसुमेन पूजयामि त्वाम् ॥ ७ ॥

शमधनमूलधनं त्वां सकलेश्वर भवसि धूपितः केन ।
दीपः कथं शिखावान् दीप्येत पुरः स्वयंप्रकाशस्य ॥ ८ ॥

अमृतात्मकमपि भगवन्नशनं किन्नाम नित्यतृप्तस्य ।
त्वय्याम्रेडितमेतत्तांबूलं यदिह सुमुखरागाय ॥ ९ ॥

उपहारीभूयादिदमुमेश यन्मे विचेष्टितमशेषम् ।
नीराजयामि तमिमं नानात्मानं सहाखिलैः करणैः ॥ १० ॥

सुमनश्शेखर भव ते सुमनोऽञ्जलिरेष को भवेच्छंभो ।
छत्रं द्युमन् द्युमार्धन् चामरमपि किं जितश्रमस्य तव ॥ ११ ॥

नृत्यं प्रथतां कथमिव नाथ तवाग्रे महानटस्येह ।
गीतं किं पुरवैरिन् गीतागममूलदेशिकस्य पुरः ॥ १२ ॥

वाद्यं डमरु भृतस्ते वादयितुं ते पुरोऽस्ति का शक्तिः ।
अपरिच्छिन्नस्य भवेदखिलेश्वर कः प्रदक्षिणविधिस्ते ॥ १३ ॥

स्युस्ते नमांसि कथमिव शङ्कर परितोऽपि विद्यमानस्य ।
वाचामगोचरे त्वयि वाक्प्रसरो मे कथं सुसंभवतु ॥ १४ ॥

नित्यानन्दाय नमो निर्मलविज्ञानविग्रहाय नमः ।
निरवधिकरुणाय नमो निरवधिविभवाय तेजसेऽस्तु नमः ॥ १५ ॥

सरसिजविपक्षचूडः सगरतनूजन्मसुकृतमूर्धाऽसौ ।
दृक्कूलङ्कषकरुणो दृष्टिपथे मेऽस्तु धवलिमा कोऽपि ॥ १६ ॥

जगदाधारशरासं जगदुत्पादप्रवीणयन्तारम् ।
जगदवनकर्मठशरं जगदुद्धारं श्रयामि चित्सारम् ॥ १७ ॥

कुवलयसहयुध्वगलैः कुलगिरिकूटस्थकवचितार्धाङ्गैः ।
कलुषविदूरैश्चेतः कबलितमेतत्कृपारसैः किञ्चित् ॥ १८ ॥

वसनवतेकत्कृत्त्या वासवते रजतशैलशिखरेण ।
वलयवते भोगभृता वनितार्धाङ्गाय वस्तुनेऽस्तु नमः ॥ १९ ॥

सरसिजकुवलय-जागरसंवेशन जागरूकलोचनतः ।
सकृदपि नाहं जाने सुतरान्तं भाष्यकारमञ्जीरात् ॥ २० ॥

आपाटलजूटाना-मानीलच्छायकन्धरा-सीम्नाम् ।
आपाण्डुविग्रहाणामाद्रुहिणं किङ्करा वयं महसाम् ॥ २१ ॥

मुषितस्मरावलेपे मुनितनयायुर्वदान्यपदपद्मे ।
महसि मनो रमतां मे मनसि दयापूरमेदुरापाङ्गे ॥ २२ ॥

शर्मणि जगतां गिरिजानर्मणि सप्रेमहृदयपरिपाके ।
ब्रह्मणि विनमद्रक्षणकर्मणि तस्मिन्नुदेतु भक्तिर्मे ॥ २३ ॥

कस्मिन्नपि समये मम कण्ठच्छायाविधूतकालाभ्रम् ।
अस्तु पुरो वस्तु किमप्यर्धाङ्गेदरमुन्मिषन्निटलम् ॥ २४ ॥

जटिलाय मौलिभागे जलधर नीलाय कन्धराभोगे ।
धवलाय वपुषि निखिले धाम्नेस्स्यान्मानसे नमोवाकः ॥ २५ ॥

अकरविराजत्सुमृगै-रवृषतुरङ्गै-रमौलिधृतगङ्गैः ।
अकृतमनोभवभङ्गैरलमन्यैर्जगति दैवतं मन्यैः ॥ २६ ॥

कस्मै वच्मि दशां मे कस्येदृग्घृदयमस्ति शक्तिर्वा ।
कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ २७ ॥

याचे ह्यनभिनवं ते चन्द्रकलोत्तंस किञ्चिदपि वस्तु ।
मह्यं प्रदेहि भगवन् मदीयमेव स्वरूपमानन्दम् ॥ २८ ॥

भगवन्बालतया वाऽभक्त्या वाऽप्यापदाकुलतया वा ।
मोहाविष्टतया वा माऽस्तु च ते मनसि यद्दुरुक्तं मे ॥ २९ ॥

यदि विश्वाधिकता ते यदि निगमागमपुराणयाथार्थ्यम् ।
यदि वा भक्तेषु दया तदिह महेशाशु पूर्णकामस्स्याम् ॥ ३० ॥

इति शिवानन्दावधूतरचित शिवमानसिकपूजास्तोत्रम् ।

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: