Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।
ढुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १ ॥
यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्य निचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २ ॥
सर्वदाऽमरगणैश्चवन्दिता या गजेन्द्रमुखवारितविघ्ना ।
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी ॥ ३ ॥
यत्र तीर्थममला मणिकर्णिका या सदाशिव सुखप्रदायिनी ।
या शिवेन रचिता निजायुधैः विश्वनाथनगरी गरीयसी ॥ ४ ॥
सर्वतीर्थकृतमज्जनपुण्यैर्जन्मजन्मसुकृतैः खलु लभ्या ।
प्राप्यते भव भवार्तिनाशिनि विश्वनाथनगरी गरीयसी ॥ ५ ॥
यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते मरणमात्रतः सदा ।
नाखिलामरगणैश्चवन्दिता विश्वनाथनगरी गरीयसी ॥ ६ ॥
यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी ।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी ॥ ७ ॥
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी ।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ८ ॥
विश्वनाथनगरीस्तवं शुभं
यः पठेत् प्रयतमानसः सदा ।
पुत्रदारगृहलाभमव्ययं
मुक्तिमार्गमनघं लभेत्सदा ॥ ९ ॥
इति श्रीवेदव्यासविरचित काश्यष्टकं नाम विश्वनाथनगरीस्तवम् ।
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.