Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(पुस्तक: यह स्तोत्र “प्रभात स्तोत्रनिधि (देवनागरी)” पुस्तकमें मुद्रित है । Click here to buy.)
श्री कृष्ण उवाच ।
सुलभो भक्तियुक्तानां दुर्दर्शो दुष्टचेतसाम् ।
अनन्यगतिकानां च प्रभुर्भक्तैकवत्सलः ॥ १
शनैश्चरस्तत्र नृसिंहदेव
स्तुतिं चकारामल चित्तवृतिः ।
प्रणम्य साष्टाङ्गमशेषलोक
किरीट नीराजित पादपद्मम् ॥ २ ॥
श्री शनिरुवाच ।
यत्पादपङ्कजरजः परमादरेण
संसेवितं सकलकल्मषराशिनाशम् ।
कल्याणकारकमशेषनिजानुगानां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ३ ॥
सर्वत्र चञ्चलतया स्थितया हि लक्ष्म्या
ब्रह्मादिवन्द्यपदया स्थिरयान्यसेवी ।
पादारविन्दयुगलं परमादरेण
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ४ ॥
यद्रूपमागमशिरः प्रतिपाद्यमाद्यं
आध्यात्मिकादि परितापहरं विचिन्त्यम् ।
योगीश्वरैरपगताऽखिलदोषसङ्घैः
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ५ ॥
प्रह्लादभक्तवचसा हरिराविरासीत्
स्तम्भे हिरण्यकशिपुं य उदारभावः ।
ऊर्वो निधाय उदरं नखरैर्ददार
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ६ ॥
यो नैजभक्तमनलाम्बुधि भूधरोग्र-
-शृङ्गप्रपात विषदन्तसरीसृपेभ्यः ।
सर्वात्मकः परमकारुणिको ररक्ष
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ७ ॥
यन्निर्विकार पररूप विचिन्तनेन
योगीश्वरा विषयवीत समस्तरागाः ।
विश्रान्तिमापुर विनाशवतीं पराख्यां
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ८ ॥
यद्रूपमुग्रमरिमर्दन भावशाली
सञ्चिन्तनेन सकलाभवभीतिहारी । [अघविनाशकारि]
भूत ज्वर ग्रह समुद्भव भीतिनाशं
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ ९ ॥
यस्योत्तमं यश उमापतिमग्रजन्म
शक्रादि दैवत सभासु समस्तगीतम् ।
श्रुत्वैक सर्वशमलप्रशमेकदक्षं [शक्त्यैव]
स त्वं नृसिंह मयि देहि कृपावलोकम् ॥ १० ॥
श्रीकृष्ण उवाच ।
इत्थं श्रुत्वा स्तुतिं देवः शनिना कल्पितां हरिः ।
उवाच ब्रह्म वृन्दस्थं शनिं तं भक्तवत्सलः ॥ ११ ॥
श्रीनृसिंह उवाच ।
प्रसन्नोऽहं शने तुभ्यं वरं वरय शोभनम् ।
यं वाञ्छसि तमेव त्वं सर्वलोक हितावहम् ॥ १२ ॥
श्री शनिरुवाच ।
नृसिंह त्वं मयि कृपां कुरु देव दयानिधे ।
मद्वासरस्तव प्रीतिकरः स्याद्देवतापते ॥ १३ ॥
मत्कृतं त्वत्परं स्तोत्रं शृण्वन्ति च पठन्ति च ।
सर्वान् कामन् पूरयेथाः तेषां त्वं लोकभावन ॥ १४ ॥
श्री नृसिंह उवाच ।
तथैवास्तु शनेऽहं वै रक्षो भुवनसंस्थितः ।
भक्त कामान् पूरयिष्ये त्वं ममैकं वचः शृणु ॥ १५ ॥
त्वत्कृतं मत्परं स्तोत्रं यः पठेच्छृणुयाच्च यः ।
द्वादशाष्टम जन्मस्थात् त्वद्भयं मास्तु तस्य वै ॥ १६ ॥
शनिर्नरहरिं देवं तथेति प्रत्युवाच ह ।
ततः परमसन्तुष्टो जयेति मुनयोवदन् ॥ १७ ॥
श्री कृष्ण उवाच ।
इदं शनैश्चरस्याथ नृसिंह देव
संवादमेतत् स्तवनं च मानवः ।
शृणोति यः श्रावयते च भक्त्या
सर्वाण्यभीष्टानि च विन्दते ध्रुवम् ॥ १८ ॥
इति श्री भविष्योत्तरपुराणे श्री शनैश्चर कृत श्री नृसिंह स्तुतिः ।
टिप्पणि: ऊपर दिया गया स्तोत्र इस पुस्तक में उपलब्ध है ।
प्रभात स्तोत्रनिधि
( पारायण ग्रन्थम् )
इतर श्री नृसिंह स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
One thought on “Shani Krutha Sri Narasimha Stuti – श्री नृसिंह स्तुति (शनैश्चर कृतम्)”
Leave a Reply
You must be logged in to post a comment.



It is a great service that you are doing to enlighten devotees of Lord Sri Narasimha with this wonderful stuti.