Gomatha Prarthana – गोमाता प्रार्थना


नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ १

कीर्तनं श्रवणं दानं दर्शनं चाऽपि पार्धिव ।
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ २

घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
घृतनद्यो घृतावर्तास्तामे सन्तु सदा गृहे ॥ ३

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्टितं ।
घृतं सर्वेषु गात्रेषु घृतं मे मनसिस्थितम् ॥ ४

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
गावो मे सर्वतश्चैव गवां मध्येवसाम्यहम् ॥ ५

इत्याचम्य जपेत्सायं प्रातश्च पुरुषस्सदा ।
यदह्नात्कुरुतेपापं तस्मात् स परिमुच्यते ॥ ६


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed