Ratha Saptami Sloka – रथ सप्तमि श्लोकाः


अर्कपत्र स्नान श्लोकाः ।
सप्तसप्तिप्रिये देवि सप्तलोकैकदीपिके ।
सप्तजन्मार्जितं पापं हर सप्तमि सत्वरम् ॥ १ ॥

यन्मयात्र कृतं पापं पूर्वं सप्तसु जन्मसु ।
तत्सर्वं शोकमोहौ च माकरी हन्तु सप्तमी ॥ २ ॥

नमामि सप्तमीं देवीं सर्वपापप्रणाशिनीम् ।
सप्तार्कपत्रस्नानेन मम पापं व्यापोहतु ॥ ३ ॥

अर्घ्य श्लोकम् ।
सप्त सप्ति वहप्रीत सप्तलोक प्रदीपन ।
सप्तमी सहितो देव गृहाणार्घ्यं दिवाकर ॥ १ ॥

—————
अन्य पाठः –
यदा जन्मकृतं पापं मया जन्मसु जन्मसु ।
तन्मे रोगं च शोकं च माकरी हन्तु सप्तमी ॥ १

एतज्जन्म कृतं पापं यच्च जन्मान्तरार्जितम् ।
मनो वाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः ॥ २

इति सप्तविधं पापं स्नानान्मे सप्त सप्तिके ।
सप्तव्याधि समायुक्तं हर माकरि सप्तमी ॥ ३

सप्त सप्त महासप्त सप्त द्वीपा वसुन्धरा ।
श्वेतार्क पर्णमादाय सप्तमी रथ सप्तमी ॥ ४


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed