Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।
भक्तानामिष्टदे मातः अभिरामि नमोऽस्तु ते ॥ १ ॥
चन्द्रोदयं कृतवती ताटङ्केन महेश्वरि ।
आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥ २ ॥
सुधाघटेशश्रीकान्ते शरणागतवत्सले ।
आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ३ ॥
कल्याणि मङ्गलं देहि जगन्मङ्गलकारिणि ।
ऐश्वर्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ४ ॥
चन्द्रमण्डलमध्यस्थे महात्रिपुरसुन्दरि ।
श्रीचक्रराजनिलये अभिरामि नमोऽस्तु ते ॥ ५ ॥
राजीवलोचने पूर्णे पूर्णचन्द्रविधायिनि ।
सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ६ ॥
गणेशस्कन्दजननि वेदरूपे धनेश्वरि ।
विद्यां च देहि मे कीर्तिं अभिरामि नमोऽस्तु ते ॥ ७ ॥
सुवासिनीप्रिये मातः सौमाङ्गल्यविवर्धिनी ।
माङ्गल्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ ८ ॥
मार्कण्डेय महाभक्त सुब्रह्मण्य सुपूजिते ।
श्रीराजराजेश्वरी त्वं ह्यभिरामि नमोऽस्तु ते ॥ ९ ॥
सान्निध्यं कुरु कल्याणी मम पूजागृहे शुभे ।
बिम्बे दीपे तथा पुष्पे हरिद्रा कुङ्कुमे मम ॥ १० ॥
अभिराम्या इदं स्तोत्रं यः पठेच्छक्तिसन्निधौ ।
आयुर्बलं यशो वर्चो मङ्गलं च भवेत्सुखम् ॥ ११ ॥
इति श्रीअभिरामिभट्टार् कृत श्री अभिरामि स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.