Sri Maha Ganapathi Shodashopachara Puja – श्री महागणपति षोडशोपचार पूजा


ओं ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

ध्यानम् –
ध्यायेद्गजाननं देवं तप्तकाञ्चन सन्निभम् ।
चतुर्भुजं महाकायं सर्वाभरणभूषितम् ॥
ओं श्री महागणाधिपतये नमः ध्यायामि ।

आवाहनम् –
अत्रागच्छ जगद्वन्द्य सुरराजार्चितेश्वर ।
अनाथनाथ सर्वज्ञ गौरीगर्भसमुद्भव ॥
ओं श्री महागणाधिपतये नमः आवहयामि ।

आसनम् –
मौक्तिकैः पुष्परागैश्च नानारत्नैर्विराजितम् ।
रत्नसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्री महागणाधिपतये नमः आसनं समर्पयामि ।

पाद्यम् –
गजवक्त्र नमस्तेस्तु सर्वाभीष्टप्रदायक ।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन ॥
ओं श्री महागणाधिपतये नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
गौरीपुत्र नमस्तेस्तु शङ्करप्रियनन्दन ।
गृहाणार्घ्यं मयादत्तं गन्धपुष्पाक्षतैर्युतम् ॥
ओं श्री महागणाधिपतये नमः अर्घ्यं समर्पयामि ।

आचमनीयम् –
अनाथनाथ सर्वज्ञ गीर्वाणवरपूजित ।
गृहाणाचमनं देव तुभ्यं दत्तं मया प्रभो ।
ओं श्री महागणाधिपतये नमः आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –
दधिक्षीर समायुक्तं मध्वाऽज्येन समन्वितम् ।
स्नानं पञ्चामृतैर्देव गृहाण गणनायक ॥
ओं श्री महागणाधिपतये नमः पञ्चामृतस्नानं समर्पयामि ।

स्नानम् –
गङ्गादि सर्वतीर्थेभ्यः आहृतैरमलैर्जलै ः ।
स्नानं कुरुष्व भगवानुमापुत्र नमोऽस्तुते ॥
ओं श्री महागणाधिपतये नमः शुद्धोदक स्नानं समर्पयामि ।

(श्री गणपत्यथर्वशीर्षोपनिषत् पश्यतु)

वस्त्रम् –
रक्तवस्त्रद्वयं चारु देवयोग्यं च मङ्गलम् ।
शुभप्रदं गृहाण त्वं लम्बोदर हरात्मज ॥
ओं श्री महागणाधिपतये नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम् –
राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम् ।
गृहाण सर्वधर्मज्ञ भक्तानामिष्टदायक ॥
ओं श्री महागणाधिपतये नमः उपवीतं समर्पयामि ।

गन्धम् –
चन्दनागरु कर्पूर कस्तूरी कुङ्कुमान्वितम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्री महागणाधिपतये नमः गन्धान् समर्पयामि ॥

अक्षतान् –
अक्षतान् धवलान् दिव्यान् शालीया तण्डुलान् शुभान् ।
हरिद्रा चूर्ण सम्युक्तान् सङ्गृहाण गणाधिप ॥
ओं श्री महागणाधिपतये नमः अक्षतान् समर्पयामि ।

पुष्पम् –
सुगन्धीनि च पुष्पाणि जाजीकुन्दमुखानि च ।
एकविम्शति सङ्ख्याणि गृहाण गणनायक ।
ओं श्री महागणाधिपतये नमः नानाविध परिमल पुष्पाणि समर्पयामि ।

अथ अङ्गपूजा –
ओं पार्वतीनन्दनाय नमः – पादौ पूजयामि ।
ओं गणेशाय नमः – गुल्फौ पूजयामि ।
ओं जगद्धात्रे नमः – जङ्घे पूजयामि ।
ओं जगद्वल्लभाय नमः – जानुनी पूजयामि ।
ओं उमापुत्राय नमः – ऊरू पूजयामि ।
ओं विकटाय नमः – कटिं पूजयामि ।
ओं गुहाग्रजाय नमः – गुह्यं पूजयामि ।
ओं महत्तमाय नमः – मेढ्रं पूजयामि ।
ओं नाथाय नमः – नाभिं पूजयामि ।
ओं उत्तमाय नमः – उदरं पूजयामि ।
ओं विनायकाय नमः – वक्षःस्थलं पूजयामि ।
ओं पाशच्छिदे नमः – पार्श्वौ पूजयामि ।
ओं हेरम्बाय नमः – हृदयं पूजयामि ।
ओं कपिलाय नमः – कण्ठं पूजयामि ।
ओं स्कन्दाग्रजाय नमः – स्कन्धे पूजयामि ।
ओं हरसुताय नमः – हस्तान् पूजयामि ।
ओं ब्रह्मचारिणे नमः – बाहून् पूजयामि ।
ओं सुमुखाय नमः – मुखं पूजयामि ।
ओं एकदन्ताय नमः – दन्तौ पूजयामि ।
ओं विघ्ननेत्रे नमः – नेत्रौ पूजयामि ।
ओं शूर्पकर्णाय नमः – कर्णौ पूजयामि ।
ओं फालचन्द्राय नमः – ललाटं पूजयामि ।
ओं नागाभरणाय नमः – नासिकां पूजयामि ।
ओं चिरन्तनाय नमः – चुबुकं पूजयामि ।
ओं स्थूलोष्ठाय नमः – ओष्ठौ पूजयामि ।
ओं गलन्मदाय नमः – गण्डे पूजयामि ।
ओं कपिलाय नमः – कचान् पूजयामि ।
ओं शिवप्रियाय नमः – शिरः पूजयामि ।
ओं सर्वमङ्गलासुताय नमः – सर्वाण्यङ्गानि पूजयामि ।

अष्टोत्तर शतनामावली –

श्री विघ्नेश्वर अष्टोत्तरशतनामावली पश्यतु ।

ओं सुमुखाय नमः । ओं एकदन्ताय नमः ।
ओं कपिलायनमः । ओं गजकर्णिकाय नमः ।
ओं लम्बोदरायनमः । ओं विकटाय नमः ।
ओं विघ्नराजाय नमः । ओं गणाधिपायनमः ।
ओं धूमकेतवे नमः । ओं गणाध्यक्षाय नमः ।
ओं फालचन्द्राय नमः । ओं गजाननाय नमः ।
ओं वक्रतुण्डाय नमः । ओं शूर्पकर्णाय नमः ।
ओं हेरम्बाय नमः । ओं स्कन्दपूर्वजाय नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।

धूपम् –
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
उमासुत नमस्तुभ्यं गृहाण वरदोभव ॥
ओं श्री महागणाधिपतये नमः धूपमाघ्रापयामि ।

दीपम् –
साज्यं त्रिवर्ति सम्युक्तं वह्निना द्योतितं मया ।
गृहाण मङ्गलं दीपं त्रैलोक्य तिमिरापह ॥
ओं श्री महागणाधिपतये नमः दीपं दर्शयामि ।

नैवेद्यम् –
सुगन्धान्सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मया दत्तं विनायक ॥
ओं श्री महागणाधिपतये नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॑स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्य॒म् । भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योन॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि
(सायंकाले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।
कर्पूरचूर्णसम्युक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्री महागणाधिपतये नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
घृतवर्ति सहस्रैश्च कर्पूरशकलैः स्थितम् ।
नीराजनं मयादत्तं गृहाण वरदोभव ॥
ओं श्री महागणाधिपतये नमः नीराजनं समर्पयामि ।

मन्त्रपुष्पम् –
(विशेष मन्त्रपुष्पं पश्यतु)
गणाधिप नमस्तेस्तु उमापुत्र गजानन
विनायकेश तनय सर्वसिद्धिप्रदायक ।
एकदन्तैकवदन तथा मूषिकवाहन
कुमारगुरवे तुभ्यं अर्पयामि सुमाञ्जलिम् ॥
ओं श्री महागणाधिपतये नमः मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिणम् –
यानिकानिच पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥

प्रदक्षिणं करिष्यामि सततं मोदकप्रिय
मद्विघ्नं हरमे शीघ्रं भक्तानामिष्टदायका ।
आखुवाहन देवेश विश्वव्यापिन् विनायक
प्रदक्षिणं करोमि त्वां प्रसीदवरदो भव ॥
ओं श्री महागणाधिपतये नमः प्रदक्षिण नमस्कारान् समर्पयामि ।

नमस्कारम् –
विघ्नेश्वराय वरदाय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय
भक्तिप्रसन्न वरदाय नमो नमोऽस्तु ॥

क्षमाप्रार्थना –
यस्यस्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री महागणाधिपति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

श्री महागणाधिपति प्रसादं शिरसा गृह्णामि ।

तीर्थम् –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महागणाधिपति पादोदकं पावनं शुभम् ॥

उद्वासनम् –
ओं श्री महागणाधिपतये नमः यथास्थानं उद्वासयामि ॥

शोभनार्थे क्षेमाय पुनरागमनाय च ।

ओं शान्तिः शान्तिः शान्तिः ।

उत्तरे शुभकर्मण्यविघ्नमस्तु ॥


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed