Sri Ganapati Atharvashirsha Upanishat – श्री गणपत्यथर्वशीर्षोपनिषत्

श्री गणपत्यथर्वशीर्षोपनिषत्

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं नम॑स्ते ग॒णप॑तये ।
त्वमे॒व प्र॒त्यक्षं॒ तत्त्व॑मसि ।
त्वमे॒व के॒वलं॒ कर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ धर्ता॑ऽसि ।
त्वमे॒व के॒वलं॒ हर्ता॑ऽसि ।
त्वमेव सर्वं खल्विदं॑ ब्रह्मा॒सि ।
त्वं साक्षादात्मा॑ऽसि नि॒त्यम् ॥ १ ॥

ऋ॑तं व॒च्मि । स॑त्यं व॒च्मि ॥ २ ॥

अव॑ त्वं॒ माम् । अव॑ व॒क्तारम्᳚ ।
अव॑ श्रो॒तारम्᳚ । अव॑ दा॒तारम्᳚ ।
अव॑ धा॒तारम्᳚ । अवानूचानम॑व शि॒ष्यम् ।
अव॑ प॒श्चात्ता᳚त् । अव॑ पु॒रस्ता᳚त् ।
अवोत्त॒रात्ता᳚त् । अव॑ दक्षि॒णात्ता᳚त् ।
अव॑ चो॒र्ध्वात्ता᳚त् । अवाध॒रात्ता᳚त् ।
सर्वतो मां पाहि पाहि॑ सम॒न्तात् ॥ ३ ॥

त्वं वाङ्मय॑स्त्वं चिन्म॒यः ।
त्वमानन्दमय॑स्त्वं ब्रह्म॒मयः ।
त्वं सच्चिदानन्दाद्वि॑तीयो॒ऽसि ।
त्वं प्र॒त्यक्षं॒ ब्रह्मा॑सि ।
त्वं ज्ञानमयो विज्ञान॑मयो॒ऽसि ॥ ४ ॥

सर्वं जगदिदं त्व॑त्तो जा॒यते ।
सर्वं जगदिदं त्व॑त्तस्ति॒ष्ठति ।
सर्वं जगदिदं त्वयि लय॑मेष्य॒ति ।
सर्वं जगदिदं त्वयि॑ प्रत्ये॒ति ।
त्वं भूमिरापोऽनलोऽनि॑लो न॒भः ।
त्वं चत्वारि वा᳚क्पदा॒नि ॥ ५ ॥

त्वं गु॒णत्र॑याती॒तः ।
त्वमवस्थात्र॑याती॒तः ।
त्वं दे॒हत्र॑याती॒तः ।
त्वं का॒लत्र॑याती॒तः ।
त्वं मूलाधारस्थितो॑ऽसि नि॒त्यम् ।
त्वं शक्तित्र॑यात्म॒कः ।
त्वां योगिनो ध्याय॑न्ति नि॒त्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म॒ भूर्भुव॒: स्व॒रोम् ॥ ६ ॥

ग॒णादिं᳚ पूर्व॑मुच्चा॒र्य॒ व॒र्णादीं᳚स्तदन॒न्त॑रम् ।
अनुस्वारः प॑रत॒रः । अर्धे᳚न्दुल॒सितम् ।
तारे॑ण ऋ॒द्धम् । एतत्तव मनु॑स्वरू॒पम् ।
गकारः पू᳚र्वरू॒पम् । अकारो मध्य॑मरू॒पम् ।
अनुस्वारश्चा᳚न्त्यरू॒पम् । बिन्दुरुत्त॑ररू॒पम् ।
नाद॑: सन्धा॒नम् । सग्ंहि॑ता स॒न्धिः ।
सैषा गणे॑शवि॒द्या । गण॑क ऋ॒षिः ।
निचृद्गाय॑त्रीच्छ॒न्दः ।
गणपति॑र्देव॒ता । ओं गं ग॒णप॑तये नमः ॥ ७ ॥

एकद॒न्ताय॑ वि॒द्महे॑ वक्रतु॒ण्डाय॑ धीमहि ।
तन्नो॑ दन्तिः प्रचो॒दया᳚त् ॥ ८ ॥

एकद॒न्तं च॑तुर्ह॒स्तं॒ पा॒शम॑ङ्कुश॒ धारि॑णम् ।
रदं॑ च॒ वर॑दं ह॒स्तै॒र्बि॒भ्राणं॑ मूष॒कध्व॑जम् ।
रक्तं॑ लं॒बोद॑रं शू॒र्प॒क॒र्णकं॑ रक्त॒वास॑सम् ।
रक्त॑ग॒न्धानु॑लिप्ता॒ङ्गं॒ र॒क्तपु॑ष्पैः सु॒पूजि॑तम् ।
भक्ता॑नु॒कम्पि॑नं दे॒वं॒ ज॒गत्का॑रण॒मच्यु॑तम् ।
आवि॑र्भू॒तं च॑ सृ॒ष्ट्या॒दौ॒ प्र॒कृते᳚: पुरु॒षात्प॑रम् ।
एवं॑ ध्या॒यति॑ यो नि॒त्यं॒ स॒ योगी॑ योगि॒नां व॑रः ॥ ९ ॥

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये॒ नम॑: ॥ १० ॥

एतदथर्वशीर्षं॑ योऽधी॒ते ।
स ब्रह्मभूया॑य क॒ल्पते ।
स सर्वविघ्नै᳚र्न बा॒ध्यते ।
स सर्वत्र सुख॑मेध॒ते ।
स पञ्चमहापापा᳚त् प्रमु॒च्यते ।
सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति ।
प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति ।
सायं प्रातः प्र॑युञ्जा॒नो॒ पापोऽपा॑पो भ॒वति ।
सर्वत्राधीयानोऽपवि॑घ्नो भ॒वति ।
धर्मार्थकाममोक्षं॑ च वि॒न्दति ।
इदमथर्वशीर्षमशिष्याय॑ न दे॒यम् ।
यो यदि मो॑हाद्दा॒स्यति । स पापी॑यान् भ॒वति ।
सहस्रावर्तनाद्यं यं काम॑मधी॒ते ।
तं तमने॑न सा॒धयेत् ॥ ११ ॥

अनेन गणपतिम॑भिषि॒ञ्चति । स वा॑ग्मी भ॒वति ।
चतुर्थ्यामन॑श्नन् ज॒पति स विद्या॑वान् भ॒वति ।
इत्यथर्व॑ण वा॒क्यम् ।
ब्रह्माद्या॒वर॑णं वि॒द्यान्न बिभेति कदा॑चने॒ति ॥ १२ ॥

यो दूर्वाङ्कु॑रैर्य॒जति स वैश्रवणोप॑मो भ॒वति ।
यो ला॑जैर्य॒जति स यशो॑वान् भ॒वति । स मेधा॑वान् भ॒वति ।
यो मोदकसहस्रे॑ण य॒जति स वाञ्छित फलम॑वाप्नो॒ति ।
यः साज्य समि॑द्भिर्य॒जति स सर्वं लभते स स॑र्वं ल॒भते ॥ १३ ॥

अष्टौ ब्राह्मणान् सम्यग् ग्रा॑हयि॒त्वा सूर्यवर्च॑स्वी भ॒वति ।
सूर्यग्रहे म॑हान॒द्यां प्रतिमा सन्निधौ वा ज॒प्त्वा सिद्धम॑न्त्रो भ॒वति ।
महाविघ्ना᳚त् प्रमु॒च्यते । महादोषा᳚त् प्रमु॒च्यते ।
महाप्रत्यवाया᳚त् प्रमु॒च्यते ।
स सर्वविद्भवति स सर्व॑विद्भ॒वति ।
य ए॑वं वे॒द । इत्यु॑प॒निष॑त् ॥ १४ ॥

ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥

ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः ।
भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभि॑: ।
व्यशे॑म दे॒वहि॑तं॒ यदायु॑: ।
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः ।
स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः ।
स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥


इतर वेद सूक्तानि पश्यतु ।


గమనిక: "శ్రీగణేశ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము..

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: