Sri Ganesha Suktam – श्री गणेश सूक्तम् (ऋग्वेदीय)


आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।
म॒हा॒ह॒स्ती दक्षि॑णेन ॥ १ ॥

वि॒द्मा हि त्वा᳚ तुविकू॒र्मिन्तु॒विदे᳚ष्णं तु॒वीम॑घम् ।
तु॒वि॒मा॒त्रमवो᳚भिः ॥ २ ॥

न॒ हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् ।
भी॒मं न गां वा॒रय᳚न्ते ॥ ३ ॥

एतो॒न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्व॑: स्व॒राजम्᳚ ।
न राध॑सा मर्धिषन्नः ॥ ४ ॥

प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् ।
अ॒भिराध॑साजुगुरत् ॥ ५ ॥

आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।
इन्द्र॒ मानो॒ वसो॒र्निर्भा᳚क् ॥ ६ ॥

उप॑क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् ।
अदा᳚शूष्टरस्य॒ वेद॑: ॥ ७ ॥

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भि॒: सनि॑त्वः ।
अ॒स्माभि॒: सुतं स॑नुहि ॥ ८ ॥

स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्य᳚म् वि॒श्वश्च᳚न्द्राः ।
वशै᳚श्च म॒क्षू ज॑रन्ते ॥ ९ ॥

ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ न॑: शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ १० ॥

नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् ।
न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ॥ ११ ॥

अ॒भि॒ख्यानो᳚ मघव॒न्नाध॑माना॒न्त्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् ।
रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥ १२ ॥


इतर श्री गणेश स्तोत्राणि पश्यतु । इतर वेद सूक्तानि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed