Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीललिता त्रिशतीस्तोत्र महामन्त्रस्य, भगवान् हयग्रीव ऋषिः, अनुष्टुप् छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता, ऐं बीजं, सौः शक्तिः, क्लीं कीलकं, मम चतुर्विधपुरुषार्थफलसिद्ध्यर्थे जपे विनियोगः ।
ऐमित्यादिभिरङ्गन्यासकरन्यासाः कार्याः ।
ध्यानम् ।
अतिमधुरचापहस्ता-
-मपरिमितामोदबाणसौभाग्याम् ।
अरुणामतिशयकरुणा-
-मभिनवकुलसुन्दरीं वन्दे ।
श्री हयग्रीव उवाच ।
ककाररूपा कल्याणी कल्याणगुणशालिनी ।
कल्याणशैलनिलया कमनीया कलावती ॥ १ ॥
कमलाक्षी कल्मषघ्नी करुणामृतसागरा ।
कदम्बकाननावासा कदम्बकुसुमप्रिया ॥ २ ॥
कन्दर्पविद्या कन्दर्पजनकापाङ्गवीक्षणा ।
कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटा ॥ ३ ॥
कलिदोषहरा कञ्जलोचना कम्रविग्रहा ।
कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ॥ ४ ॥
एकाररूपा चैकाक्षर्येकानेकाक्षराकृतिः ।
एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृतिः ॥ ५ ॥
एवमित्यागमाबोध्या चैकभक्तिमदर्चिता ।
एकाग्रचित्तनिर्ध्याता चैषणारहितादृता ॥ ६ ॥
एलासुगन्धिचिकुरा चैनःकूटविनाशिनी ।
एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ॥ ७ ॥
एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता ।
एधमानप्रभा चैजदनेकजगदीश्वरी ॥ ८ ॥
एकवीरादिसंसेव्या चैकप्राभवशालिनी ।
ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ॥ ९ ॥
ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी ।
ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ॥ १० ॥
ईक्षित्रीक्षणसृष्टाण्डकोटिरीश्वरवल्लभा ।
ईडिता चेश्वरार्धाङ्गशरीरेशाधिदेवता ॥ ११ ॥
ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी ।
ईश्वरोत्सङ्गनिलया चेतिबाधाविनाशिनी ॥ १२ ॥
ईहाविरहिता चेशशक्तिरीषत्स्मितानना ।
लकाररूपा ललिता लक्ष्मीवाणीनिषेविता ॥ १३ ॥
लाकिनी ललनारूपा लसद्दाडिमपाटला ।
ललन्तिकालसत्फाला ललाटनयनार्चिता ॥ १४ ॥
लक्षणोज्ज्वलदिव्याङ्गी लक्षकोट्यण्डनायिका ।
लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनुः ॥ १५ ॥
ललामराजदलिका लम्बिमुक्तालताञ्चिता ।
लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ॥ १६ ॥
ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया ।
ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ॥ १७ ॥
ह्रींकारजपसुप्रीता ह्रींमती ह्रींविभूषणा ।
ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ॥ १८ ॥
ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका ।
ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ॥ १९ ॥
हकाररूपा हलधृक्पूजिता हरिणेक्षणा ।
हरप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता ॥ २० ॥
हयारूढासेविताङ्घ्रिर्हयमेधसमर्चिता ।
हर्यक्षवाहना हंसवाहना हतदानवा ॥ २१ ॥
हत्यादिपापशमनी हरिदश्वादिसेविता ।
हस्तिकुम्भोत्तुङ्गकुचा हस्तिकृत्तिप्रियाङ्गना ॥ २२ ॥
हरिद्राकुङ्कुमादिग्धा हर्यश्वाद्यमरार्चिता ।
हरिकेशसखी हादिविद्या हालामदालसा ॥ २३ ॥
सकाररूपा सर्वज्ञा सर्वेशी सर्वमङ्गला ।
सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातना ॥ २४ ॥
सर्वानवद्या सर्वाङ्गसुन्दरी सर्वसाक्षिणी ।
सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ॥ २५ ॥
सर्वाधारा सर्वगता सर्वावगुणवर्जिता ।
सर्वारुणा सर्वमाता सर्वभूषणभूषिता ॥ २६ ॥
ककारार्था कालहन्त्री कामेशी कामितार्थदा ।
कामसञ्जीवनी कल्या कठिनस्तनमण्डला ॥ २७ ॥
करभोरूः कलानाथमुखी कचजिताम्बुदा ।
कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ॥ २८ ॥
कारुण्यविग्रहा कान्ता कान्तिधूतजपावलिः ।
कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ॥ २९ ॥
कल्पवल्लीसमभुजा कस्तूरीतिलकाञ्चिता ।
हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ॥ ३० ॥
हारहारिकुचाभोगा हाकिनी हल्यवर्जिता ।
हरित्पतिसमाराध्या हठात्कारहतासुरा ॥ ३१ ॥
हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा ।
हल्लीसलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ॥ ३२ ॥
हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी ।
हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ॥ ३३ ॥
हय्यङ्गवीनहृदया हरिगोपारुणांशुका ।
लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ॥ ३४ ॥
लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता ।
लङ्घ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ॥ ३५ ॥
लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता ।
लभ्येतरा लब्धभक्तिसुलभा लाङ्गलायुधा ॥ ३६ ॥
लग्नचामरहस्तश्रीशारदापरिवीजिता ।
लज्जापदसमाराध्या लम्पटा लकुलेश्वरी ॥ ३७ ॥
लब्धमाना लब्धरसा लब्धसम्पत्समुन्नतिः ।
ह्रींकारिणी ह्रींकाराद्या ह्रींमध्या ह्रींशिखामणिः ॥ ३८ ॥
ह्रींकारकुण्डाग्निशिखा ह्रींकारशशिचन्द्रिका ।
ह्रींकारभास्कररुचिर्ह्रींकाराम्भोदचञ्चला ॥ ३९ ॥
ह्रींकारकन्दाङ्कुरिका ह्रींकारैकपरायणा ।
ह्रींकारदीर्घिकाहंसी ह्रींकारोद्यानकेकिनी ॥ ४० ॥
ह्रींकारारण्यहरिणी ह्रींकारावालवल्लरी ।
ह्रींकारपञ्जरशुकी ह्रींकाराङ्गणदीपिका ॥ ४१ ॥
ह्रींकारकन्दरासिंही ह्रींकाराम्भोजभृङ्गिका ।
ह्रींकारसुमनोमाध्वी ह्रींकारतरुमञ्जरी ॥ ४२ ॥
सकाराख्या समरसा सकलागमसंस्तुता ।
सर्ववेदान्ततात्पर्यभूमिः सदसदाश्रया ॥ ४३ ॥
सकला सच्चिदानन्दा साध्या सद्गतिदायिनी ।
सनकादिमुनिध्येया सदाशिवकुटुम्बिनी ॥ ४४ ॥
सकालाधिष्ठानरूपा सत्यरूपा समाकृतिः ।
सर्वप्रपञ्चनिर्मात्री समनाधिकवर्जिता ॥ ४५ ॥
सर्वोत्तुङ्गा सङ्गहीना सगुणा सकलेष्टदा ।
ककारिणी काव्यलोला कामेश्वरमनोहरा ॥ ४६ ॥
कामेश्वरप्राणनाडी कामेशोत्सङ्गवासिनी ।
कामेश्वरालिङ्गिताङ्गी कामेश्वरसुखप्रदा ॥ ४७ ॥
कामेश्वरप्रणयिनी कामेश्वरविलासिनी ।
कामेश्वरतपःसिद्धिः कामेश्वरमनःप्रिया ॥ ४८ ॥
कामेश्वरप्राणनाथा कामेश्वरविमोहिनी ।
कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी ॥ ४९ ॥
कामेश्वराह्लादकरी कामेश्वरमहेश्वरी ।
कामेश्वरी कामकोटिनिलया काङ्क्षितार्थदा ॥ ५० ॥
लकारिणी लब्धरूपा लब्धधीर्लब्धवाञ्छिता ।
लब्धपापमनोदूरा लब्धाहङ्कारदुर्गमा ॥ ५१ ॥
लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नतिः ।
लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ॥ ५२ ॥
लब्धातिशयसर्वाङ्गसौन्दर्या लब्धविभ्रमा ।
लब्धरागा लब्धपतिर्लब्धनानागमस्थितिः ॥ ५३ ॥
लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता ।
ह्रींकारमूर्तिर्ह्रींकारसौधशृङ्गकपोतिका ॥ ५४ ॥
ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेन्दिरा ।
ह्रींकारमणिदीपार्चिर्ह्रींकारतरुशारिका ॥ ५५ ॥
ह्रींकारपेटकमणिर्ह्रींकारादर्शबिम्बिता ।
ह्रींकारकोशासिलता ह्रींकारास्थाननर्तकी ॥ ५६ ॥
ह्रींकारशुक्तिकामुक्तामणिर्ह्रींकारबोधिता ।
ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ॥ ५७ ॥
ह्रींकारवेदोपनिषद् ह्रींकाराध्वरदक्षिणा ।
ह्रींकारनन्दनारामनवकल्पकवल्लरी ॥ ५८ ॥
ह्रींकारहिमवद्गङ्गा ह्रींकारार्णवकौस्तुभा ।
ह्रींकारमन्त्रसर्वस्वा ह्रींकारपरसौख्यदा ॥ ५९ ॥
श्री ललिता त्रिशती स्तोत्रम् फलशृति (उत्तर पीठिक) >>
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.