Sri Lalitha Trisati Stotram Uttarapeetika – श्री ललिता त्रिशती स्तोत्रम् – उत्तर पीठिका (फलशृतिः)


हयग्रीव उवाच ।
इत्येवं ते मयाख्यातं देव्या नामशतत्रयम् ।
रहस्यातिरहस्यत्वाद्गोपनीयं त्वया मुने ॥ १ ॥

शिववर्णानि नामानि श्रीदेव्या कथितानि हि ।
शक्त्यक्षराणि नामानि कामेशकथितानि च ॥ २ ॥

उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै ।
तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ॥ ३ ॥

नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् ।
लोकत्रयेऽपि कल्याणं सम्भवेन्नात्र संशयः ॥ ४ ॥

सूत उवाच ।
इति हयमुखगीतं स्तोत्रराजं निशम्य
प्रगलितकलुषोऽभूच्चित्तपर्याप्तिमेत्य ।
निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं
पुनरधिकरहस्यं ज्ञातुमेवं जगाद ॥ ५ ॥

अगस्त्य उवाच ।
अश्वानन महाभाग रहस्यमपि मे वद ।
शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि ॥ ६ ॥

उभयोरपि वर्णानि कानि वा वद देशिक ।
इति पृष्टः कुम्भजेन हयग्रीवोऽवदत्पुनः ॥ ७ ॥

हयग्रीव उवाच ।
तव गोप्यं किमस्तीह साक्षादम्बानुशासनात् ।
इदं त्वतिरहस्यं ते वक्ष्यामि शृणु कुम्भज ॥ ८ ॥

एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् ।
कत्रयं हद्वयं चैव शैवो भागः प्रकीर्तितः ॥ ९ ॥

शक्त्यक्षराणि शेषाणि ह्रीङ्कार उभयात्मकः ।
एवं विभागमज्ञात्वा ये विद्याजपशालिनः ॥ १० ॥

न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि ।
चतुर्भिः शिवचक्रैश्च शक्तिचक्रैश्च पञ्चभिः ॥ ११ ॥

नवचक्रैश्च संसिद्धं श्रीचक्रं शिवयोर्वपुः ।
त्रिकोणमष्टकोणं च दशकोणद्वयं तथा ॥ १२ ॥

चतुर्दशारं चैतानि शक्तिचक्राणि पञ्च च ।
बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् ॥ १३ ॥

चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।
त्रिकोणे बैन्दवं श्लिष्टं अष्टारेऽष्टदलाम्बुजम् ॥ १४ ॥

दशारयोः षोडशारं भूगृहं भुवनाश्रके ।
शैवानामपि शाक्तानां चक्राणां च परस्परम् ॥ १५ ॥

अविनाभावसम्बन्धं यो जानाति स चक्रवित् ।
त्रिकोणरूपिणी शक्तिर्बिन्दुरूपपरः शिवः ॥ १६ ॥

अविनाभावसम्बन्धं तस्माद्बिन्दुत्रिकोणयोः ।
एवं विभागमज्ञात्वा श्रीचक्रं यः समर्चयेत् ॥ १७ ॥

न तत्फलमवाप्नोति ललिताम्बा न तुष्यति ।
ये च जानन्ति लोकेऽस्मिन् श्रीविद्याचक्रवेदिनः ॥ १८ ॥

सामन्यवेदिनः सर्वे विशेषज्ञोऽतिदुर्लभः ।
स्वयंविद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ॥ १९ ॥

तस्मै देयं ततो ग्राह्यमशक्तस्तस्य दापयेत् ।
अन्धं तमः प्रविशन्ति येऽविद्यां समुपासते ॥ २० ॥

इति श्रुतिरपाहैतानविद्योपासकान्पुनः ।
विद्यान्योपासकानेव निन्दत्यारुणिकी श्रुतिः ॥ २१ ॥

अश्रुता सश्रुतासश्च यज्वानो येऽप्ययज्वनः ।
स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निं च ये विदुः ॥ २२ ॥

सिकता इव सम्यन्ति रश्मिभिः समुदीरिताः ।
अस्माल्लोकादमुष्माच्चेत्याह चारण्यकश्रुतिः ॥ २३ ॥

यस्य नो पश्चिमं जन्म यदि वा शङ्करः स्वयम् ।
तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी ॥ २४ ॥

इति मन्त्रेषु बहुधा विद्याया महिमोच्यते ।
मोक्षैकहेतुविद्या तु श्रीविद्या नात्र संशयः ॥ २५ ॥

न शिल्पादिज्ञानयुक्ते विद्वच्छब्धः प्रयुज्यते ।
मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशयः ॥ २६ ॥

तस्माद्विद्याविदेवात्र विद्वान्विद्वानितीर्यते ।
स्वयं विद्याविदे दद्यात्ख्यापयेत्तद्गुणान्सुधीः ॥ २७ ॥

स्वयंविद्यारहस्यज्ञो विद्यामाहात्म्यवेद्यपि ।
विद्याविदं नार्चयेच्चेत्को वा तं पूजयेज्जनः ॥ २८ ॥

प्रसङ्गादिदमुक्तं ते प्रकृतं शृणु कुम्भज ।
यः कीर्तयेत्सकृद्भक्त्या दिव्यनामशतत्रयम् ॥ २९ ॥

तस्य पुण्यमहं वक्ष्ये शृणु त्वं कुम्भसम्भव ।
रहस्यनामसाहस्रपाठे यत्फलमीरितम् ॥ ३० ॥

तत्फलं कोटिगुणितमेकनामजपाद्भवेत् ।
कामेश्वरीकामेशाभ्यां कृतं नामशतत्रयम् ॥ ३१ ॥

नान्येन तुलयेदेतत् स्तोत्रेणान्यकृतेन च ।
श्रियः परम्परा यस्य भावि वा चोत्तरोत्तरम् ॥ ३२ ॥

तेनैव लभ्यते चैतत्पश्चाच्छ्रेयः परीक्षयेत् ।
अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते ॥ ३३ ॥

या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिःसृता ।
नित्यं षोडशसङ्ख्याकान्विप्रानादौ तु भोजयेत् ॥ ३४ ॥

अभ्यक्तांस्तिलतैलेन स्नातानुष्णेन वारिणा ।
अभ्यर्च्य गन्धपुष्पाद्यैः कामेश्वर्यादिनामभिः ॥ ३५ ॥

सूपापूपैः शर्कराद्यैः पायसैः फलसम्युतैः ।
विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् ॥ ३६ ॥

एवं नित्यार्चनं कुर्यादादौ ब्राह्मणभोजनम् ।
त्रिशतीनामभिः पश्चाद्ब्राह्मणान्क्रमशोऽर्चयेत् ॥ ३७ ॥

तैलाभ्यङ्गादिकं दत्वा विभवे सति भक्तितः ।
शुक्लप्रतिपदारभ्य पौर्णमास्यवधि क्रमात् ॥ ३८ ॥

दिवसे दिवसे विप्रा भोज्या विंशतिसङ्ख्यया ।
दशभिः पञ्चभिर्वापि त्रिभिरेकेन वा दिनैः ॥ ३९ ॥

त्रिंशत्षष्टिः शतं विप्राः सम्भोज्यास्त्रिशतं क्रमात् ।
एवं यः कुरुते भक्त्या जन्ममध्ये सकृन्नरः ॥ ४० ॥

तस्यैव सफलं जन्म मुक्तिस्तस्य करे स्थिरा ।
रहस्यनामसाहस्रभोजनेऽप्येवमेव हि ॥ ४१ ॥

आदौ नित्यबलिं कुर्यात्पश्चाद्ब्राह्मणभोजनम् ।
रहस्यनामसाहस्रमहिमा यो मयोदितः ॥ ४२ ॥

स शीकराणुरत्नैकनाम्नो महिमवारिधेः ।
वाग्देवीरचिते नामसाहस्रे यद्यदीरितम् ॥ ४३ ॥

तत्फलं कोटिगुणितं नाम्नोऽप्येकस्य कीर्तनात् ।
एतदन्यैर्जपैः स्तोत्रैरर्चनैर्यत्फलं भवेत् ॥ ४४ ॥

तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ।
वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि ॥ ४५ ॥

साक्षात्कामेशकामेशीकृतेऽस्मिन्गृह्यतामिति ।
सकृत्सङ्कीर्तनादेव नाम्नामस्मिन् शतत्रये ॥ ४६ ॥

भवेच्चित्तस्य पर्याप्तिर्न्यूनमन्यानपेक्षिणी ।
न ज्ञातव्यमितोऽप्यन्यत्र जप्तव्यं च कुम्भज ॥ ४७ ॥

यद्यत्साध्यतमं कार्यं तत्तदर्थमिदं जपेत् ।
तत्तत्फलमवाप्नोति पश्चात्कार्यं परीक्षयेत् ॥ ४८ ॥

ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते फलम् ।
तत्सर्वं सिध्यति क्षिप्रं नामत्रिशतकीर्तनात् ॥ ४९ ॥

आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।
विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् ॥ ५० ॥

सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।
सर्वाभीष्टप्रदं चैव देव्या नामशतत्रयम् ॥ ५१ ॥

एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।
एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका ॥ ५२ ॥

भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् ।
तस्मात्कुम्भोद्भव मुने कीर्तय त्वमिदं सदा ॥ ५३ ॥

नापरं किञ्चिदपि ते बोद्धव्यमवशिष्यते ।
इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् ॥ ५४ ॥

नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।
न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥ ५६ ॥

यो ब्रूयात्त्रिशतीं नाम्नां तस्यानर्थो महान्भवेत् ।
इत्याज्ञा शाङ्करी प्रोक्ता तस्माद्गोप्यमिदं त्वया ॥ ५७ ॥

ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् ।
रहस्यनामसाहस्रादपि गोप्यमिदं मुने ॥ ५८ ॥

सूत उवाच ।
एवमुक्त्वा हयग्रीवः कुम्भजं तापसोत्तमम् ।
स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् ।
आनन्दलहरीमग्नमानसः समवर्तत ॥ ५९ ॥

इति ब्रह्माण्डपुराणे उत्तरखण्डे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तोत्रखण्डे श्रीललितात्रिशतीस्तोत्ररत्नम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed