Sri Kali Hrudayam – श्री काली हृदयम्


श्रीमहाकाल उवाच ।
महाकौतूहलस्तोत्रं हृदयाख्यं महोत्तमम् ।
शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ १ ॥

अवाच्यमपि वक्ष्यामि तव प्रीत्या प्रकाशितम् ।
अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ २ ॥

श्रीदेव्युवाच ।
कस्मिन्युगे समुत्पन्नं केन स्तोत्रं कृतं पुरा ।
तत्सर्वं कथ्यतां शम्भो महेश्वर दयानिधे ॥ ३ ॥

श्रीमहाकाल उवाच ।
पुरा प्रजापतेः शीर्षच्छेदनं कृतवानहम् ।
ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ ४ ॥

ब्रह्महत्याविनाशाय कृतं स्तोत्रं मया प्रिये ।
कृत्यारिनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ ५ ॥

ओं अस्य श्री दक्षिणकाली हृदय स्तोत्र महामन्त्रस्य श्रीमहाकाल ऋषिः । उष्णिक्छन्दः । श्रीदक्षिणकालिका देवता । क्रीं बीजं । ह्रीं शक्तिः । नमः कीलकं । सर्वपापक्षयार्थे जपे विनियोगः ॥

करन्यासः ।
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्य़ां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठकाभ्य़ां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुं ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ॥

ध्यानम् ।
ध्यायेत्कालीं महामायां त्रिनेत्रां बहुरूपिणीम् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ १ ॥

नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
वरमुण्डं तथा खड्गं मुसलं वरदं तथा ॥ २ ॥

बिभ्राणां रक्तवदनां दम्ष्ट्रालीं घोररूपिणीम् ।
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३ ॥

शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४ ॥

ओं कालिका घोररूपाऽद्या सर्वकामफलप्रदा ।
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५ ॥

ह्रींह्रींस्वरूपिणी श्रेष्ठा त्रिषु लोकेषु दुर्लभा ।
तव स्नेहान्मया ख्यातं न देयं यस्य कस्यचित् ॥ ६ ॥

अथ ध्यानम् प्रवक्ष्यामि निशामय परात्मिके ।
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७ ॥

नागयज्ञोपवीतां च चन्द्रार्धकृतशेखराम् ।
जटाजूटां च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८ ॥

एवं न्यासादयः सर्वे ये प्रकुर्वन्ति मानवाः ।
प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९ ॥

यन्त्रं शृणु परं देव्याः सर्वाभीष्टप्रदायकम् ।
गोप्याद्गोप्यतरं गोप्यं गोप्याद्गोप्यतरं महत् ॥ १० ॥

त्रिकोणं पञ्चकं चाष्टकमलं भूपुरान्वितम् ।
मुण्डपङ्क्तिं च ज्वालां च कालीयन्त्रं सुसिद्धिदम् ॥ ११ ॥

मन्त्रं तु पूर्वं कथितं धारयस्व सदा प्रिये ।
देव्या दक्षिणकाल्यास्तु नाममालां निशामय ॥ १२ ॥

काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाली विशालाक्षी सृष्टिसंहारकारिणी ॥ १३ ॥

स्थितिरूपा महामाया योगनिद्रा भगात्मिका ।
भगसर्पिःपानरता भगध्येया भगाङ्गजा ॥ १४ ॥

आद्या सदा नवा घोरा महातेजाः करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५ ॥

नामान्येतानि सुभगे ये पठन्ति दिने दिने ।
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६ ॥

ओं कालीं कालहरां देवीं कङ्कालीं बीजरूपिणीं ।
कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७ ॥

कुण्डगोलप्रियां देवीं स्वयम्भूतां सुमप्रियां ।
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८ ॥

दूतीप्रियां महादूतीं दूतियोगेश्वरीं परां ।
दूतोयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९ ॥

क्रींमन्त्रेण जलं जप्त्वा सप्तधा सेचनेन तु ।
सर्वरोगा विनश्यन्ति नात्र कार्या विचारणा ॥ २० ॥

क्रींस्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ।
तिलकं क्रियते प्राज्ञैर्लोकोवश्यो भवेत्सदा ॥ २१ ॥

क्रीं ह्रूं ह्रीं मन्त्रजापेन चाक्षतं सप्तभिः प्रिये ।
महाभयविनाशश्च जायते नात्र संशयः ॥ २२ ॥

क्रीं ह्रीं ह्रूं स्वाहा मन्त्रेण श्मशाने भस्म मन्त्रयेत् ।
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३ ॥

ह्रूं ह्रीं क्रीं चैव उच्चाटे पुष्पं संशोध्य सप्तधा ।
रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४ ॥

आकर्षणे च क्रीं क्रीं क्रीं जप्त्वाऽक्षतं प्रतिक्षिपेत् ।
सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५ ॥

क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च कज्जलं शोधितं तथा ।
तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६ ॥

हृदयं परमेशानि सर्वपापहरं परम् ।
अश्वमेधादियज्ञानां कोटि कोटि गुणोत्तरम् ॥ २७ ॥

कन्यादानादि दानानां कोटि कोटिगुणं फलम् ।
दूतीयागादि यागानां कोटि कोटि फलं स्मृतम् ॥ २८ ॥

गङ्गादिसर्वतीर्थानां फलं कोटिगुणं स्मृतम् ।
एकदा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९ ॥

कौमारीस्वेष्टरूपेण पूजां कृत्वा विधानतः ।
पठेत्‍ स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३० ॥

रजस्वलाभगं दृष्ट्वा पठेदेकाग्रमानसः ।
लभते परमं स्थानं देवीलोके वरानने ॥ ३१ ॥

महादुःखे महारोगे महासङ्कटके दिने ।
महाभये महाघोरे पठेत्‍ स्तोत्रं महोत्तमम् ।
सत्यं सत्यं पुनः सत्यं गोपयेन्मातृजारवत् ॥ ३२ ॥

इति श्री कालीहृदयम् ॥


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed