Sri Gayatri Hrudayam (Devi Bhagavate) – श्री गायत्री हृदयम् (देवीभागवते)


नारद उवाच ।
भगवन् देवदेवेश भूतभव्यजगत्प्रभो ।
कवचं च श्रुतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १ ॥

अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २ ॥

श्रीनारायण उवाच ।
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३ ॥

विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४ ॥

पिण्डब्रह्मण्डयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५ ॥

नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६ ॥

अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमथो भवेत् ।
गायत्रीहृदयस्याऽस्याऽप्यहमेव ऋषिः स्मृतः ॥ ७ ॥

गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८ ॥

अथार्थन्यासः । द्यौमूर्ध्नि दैवतम् । दन्तपङ्क्तावश्विनौ । उभे सन्ध्ये चौष्ठौ । मुखमग्निः । जिह्वा सरस्वती । ग्रीवायां तु बृहस्पतिः । स्तनयोर्वसवोऽष्टौ । बाह्वोर्मरुतः । हृदये पर्जन्यः । आकाशमुदरम् । नाभावन्तरिक्षम् । कट्योरिन्द्राग्नी । जघने विज्ञानघनः प्रजापतिः । कैलासमलये ऊरू । विश्वेदेवा जान्वोः । जङ्घायां कौशिकः । गुह्यमयने । ऊरू पितरः । पादौ पृथिवी । वनस्पतयोऽङ्गुलीषु । ऋषयो रोमाणि । नखानि मुहूर्तानि । अस्थिषु ग्रहाः । असृङ्मांसमृतवः ॥ संवत्सरा वै निमिषम् । अहोरात्रावादित्यश्चन्द्रमाः । प्रवरां दिव्यां गायत्रीं सहस्रनेत्रां शरणमहं प्रपद्ये ॥

ओं तत्सवितुर्वरेण्याय नमः । ओं तत्पूर्वाजयाय नमः । तत्प्रातरादित्याय नमः । तत्प्रातरादित्यप्रतिष्ठायै नमः ॥

प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । सायं प्रातरधीयानो अपापो भवति । सर्वतीर्थेषु स्नातो भवति । सर्वैर्देवैर्ज्ञातो भवति । अवाच्यवचनात्पूतो भवति । अभक्ष्यभक्षणात्पूतो भवति । अभोज्यभोजनात्पूतो भवति । अचोष्यचोषणात्पूतो भवति । असाध्यसाधनात्पूतो भवति । दुष्प्रतिग्रहशतसहस्रात्पूतो भवति । सर्वप्रतिग्रहात्पूतो भवति । पङ्क्तिदूषणात्पूतो भवति । अनृतवचनात्पूतो भवति । अथाऽब्रह्मचारी ब्रह्मचारी भवती । अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति । षष्टिशतसहस्रगायत्र्या जप्यानि फलानि भवन्ति । अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् । तस्य सिद्धिर्भवति । य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति । ब्रह्मलोके महीयते ॥

इत्याह भगवान् श्रीनारायणः ॥

इति श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे श्री गायत्री हृदयं नाम चतुर्थोऽध्यायः ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed