Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ १ ॥
त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ २ ॥
दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् ।
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥ ३ ॥
लसत्सुलोललोचनां जने सदा वरप्रदाम् ।
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥ ४ ॥
करे मुदा गदाधरीं शिवा शिवप्रदायिनीम् ।
वरां वराननां शुभां भजामि विन्ध्यवासिनीम् ॥ ५ ॥
ऋषीन्द्रजामिनीप्रदां त्रिधास्वरूपधारिणीम् ।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥ ६ ॥
विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम् ।
महोदरे विलासिनीं भजामि विन्ध्यवासिनीम् ॥ ७ ॥
पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥ ८ ॥
इति श्री विन्ध्यवासिनी स्तोत्रम् ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.