Sri Shakambhari Panchakam – श्री शाकम्भरी पञ्चकम्


श्रीवल्लभसोदरी श्रितजनश्चिद्दायिनी श्रीमती
श्रीकण्ठार्धशरीरगा श्रुतिलसन्माणिक्यताटङ्कका ।
श्रीचक्रान्तरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया
श्रीवाणी गिरिजात्मिका भगवती शाकम्भरी पातु माम् ॥ १ ॥

शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ।
श्यामाङ्गी शरणागतार्तिशमनी शक्रादिभिः संस्तुता
शङ्कर्यष्टफलप्रदा भगवती शाकम्भरी पातु माम् ॥ २ ॥

कञ्जाक्षी कलशी भवादिविनुता कात्यायनी कामदा
कल्याणी कमलालया करकृताम्भोजासिखेटाभया ।
कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना
कस्तूरीतिलकाञ्चिता भगवती शाकम्भरी पातु माम् ॥ ३ ॥

भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी
भस्मालङ्कृतिभासुरा भुवनभीकृद्दुर्गदर्पापहा ।
भूभृन्नायकनन्दिनी भुवनसूर्भास्वत्परः कोटिभा
भौमानन्दविहारिणी भगवती शाकम्भरी पातु माम् ॥ ४ ॥

रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा
राकाराजकरावदातहसिता राकेन्दुबिम्बस्थिता ।
रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी
रक्षः शिक्षणदीक्षिता भगवती शाकम्भरी पातु माम् ॥ ५ ॥

श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं
सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसन्ध्यं नरः ।
आयुःपूर्णमपारमर्थममलां कीर्तिं प्रजामक्षयां
शाकम्भर्यनुकम्पया स लभते विद्यां च विश्वार्थकाम् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्यविरचितं शाकम्भरी पञ्चकम् ॥


इतर देवी स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed