Sri Dattatreya Stotram (Alarka Krutam) – श्री दत्तात्रेय स्तोत्रम् (अलर्क कृतम्)


वन्दे देवं हेत्वात्मानं सच्चिद्रूपं सर्वात्मानम् ।
विश्वाधारं मुन्याकारं स्वेच्छाचारं वाग्‍हृद्दूरम् ॥ १ ॥

मायोपाध्या यो ब्रह्मेशो विद्योपाध्याप्यात्मानीशः ।
तत्त्वज्ञानान्मायानाशे तर्ह्येकस्त्वं नेशोऽनीशः ॥ २ ॥

रज्ज्वज्ञानात् सर्पस्तत्र भ्रान्त्या भाती शैवं ह्यत्र ।
जीवभ्रान्तिस्त्वेषा मिथ्या सा मेधारं नष्टाप्रोक्त्या ॥ ३ ॥

धन्योऽस्म्यद्य त्वद्दृक्पूतो जातोऽस्म्यद्य ब्रह्मीभूतः ।
त्वं ब्रह्मैवासीशो रूपो मायायोगान्नानारूपः ॥ ४ ॥

दत्तात्रेयः प्रज्ञामेयो वेदैर्गेयो योगिध्येयः ।
त्वं विश्वात्मा कस्त्वामीश स्तोतुं ध्यातुं ज्ञातुं वेशः ॥ ५ ॥

वृद्धः क्वापि प्रौढः क्वापि बालः क्वापि ब्रह्मः क्वापि ।
अङ्गी भोगी रागी क्वापि त्यागी योगी सङ्गी क्वापि ॥ ६ ॥

स त्वं बुद्धः सिद्धः शुद्धः श्रद्धाबद्धोप्यन्याविद्धः ।
श्रीशो मायाधीशो धीशो विज्ञानेशो निर्वाणेशः ॥ ७ ॥

धर्माधर्मातीतो गीतो वेदैर्भेदैर्हीनो नूनः ।
त्वां तं सन्तं भक्त्या मुक्त्या ईशं त्रीशं वन्दे वन्दे ॥ ८ ॥

इति श्रीमद्दत्तपुराणे पञ्चमाष्टके सप्तमोऽध्याये अलर्क कृत श्री दत्तात्रेय स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed