Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् ।
शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥ १ ॥
ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः ।
क्वापि गतं भवदीक्षासौ खलु का मम दीक्षा ॥ २ ॥
क्लेशरुजां हरणेन त्वच्चरणस्मरणेन ।
अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥ ३ ॥
प्रेमदुघं तव पादं को न भजेदविवादम् ।
दैववशाद्धृदि मेयं दर्शितवानसि मे यम् ॥ ४ ॥
चित्रमिदं सदमेयः सोऽप्यभवद्धृदि मेयः ।
देवसुरर्षिसुगेयः सोऽद्य कथं मम हेयः ॥ ५ ॥
आश्रिततापहरं तं पातकदैन्यहरन्तम् ।
नौमि शिवं भगवन्तं पादमहं तव सन्तम् ॥ ६ ॥
यत्र जगद्भ्रम एषः कल्पित एव सशेषः ।
भ्रान्तिलयेऽद्वय एवावेदि मयाद्य स एव ॥ ७ ॥
शान्तिपदं तव पादं नौमि सुसेव्यमखेदम् ।
स्वार्थदमाद्यमनन्तं हापितकामधनं तम् ॥ ८ ॥
देवो भावो राद्धः सिद्धः सत्यो नित्यो बुद्धः शुद्धः ।
सर्वोऽपूर्वो हर्ता कर्ताऽभिन्नस्त्वं नः पाता माता ॥ ९ ॥
इति श्रीमद्दत्तपुराणे चतुर्थाष्टके तृतीयोऽध्याये कार्तवीर्यार्जुन कृत श्री दत्तात्रेय स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.