Sri Datta Bhava Sudha Rasa Stotram – श्री दत्त भावसुधारस स्तोत्रम्

दत्तात्रेयं परमसुखमयं वेदगेयं ह्यमेयं
योगिध्येयं हृतनिजभयं स्वीकृतानेककायम् ।
दुष्टागम्यं विततविजयं देवदैत्यर्षिवन्द्यं
वन्दे नित्यं विहितविनयं चाव्ययं भावगम्यम् ॥ १ ॥

दत्तात्रेय नमोऽस्तु ते भगवते पापक्षयं कुर्वते
दारिद्र्यं हरते भयं शमयते कारुण्यमातन्वते ।
भक्तानुद्धरते शिवं च ददते सत्कीर्तिमातन्वते
भूतान् द्रावयते वरं प्रददते श्रेयः पते सद्गते ॥ २ ॥

एकं सौभाग्यजनकं तारकं लोकनायकम् ।
विशोकं त्रातभजकं नमस्ये कामपूरकम् ॥ ३ ॥

नित्यं स्मरामि ते पादे हतखेदे सुखप्रदे ।
प्रदेहि मे शुद्धभावं भावं यो वारयेद्द्रुतम् ॥ ४ ॥

समस्तसम्पत्प्रदमार्तबन्धुं
समस्तकल्याणदमस्तबन्धुम् ।
कारुण्यसिन्धुं प्रणमामि दत्तं
यः शोधयत्याशु मलीनचित्तम् ॥ ५ ॥

समस्तभूतान्तरबाह्यवर्ती
यश्चात्रिपुत्रो यतिचक्रवर्ती ।
सुकीर्तिसंव्याप्तदिगन्तरालः
स पातु मां निर्जितभक्तकालः ॥ ६ ॥

व्याध्याधिदारिद्र्यभयार्तिहर्ता
स्वगुप्तयेऽनेकशरीरधर्ता
स्वदासभर्ता बहुधा विहर्ता
कर्ताप्यकर्ता स्ववशोऽरिहर्ता ॥ ७ ॥

स चानसूयातनयोऽभवद्यो
विष्णुः स्वयं भाविकरक्षणाय ।
गुणा यदीया म हि बुद्धिमद्भि-
-र्गण्यन्त आकल्पमपीह धात्रा ॥ ८ ॥

न यत्कटाक्षामृतवृष्टितोऽत्र
तिष्ठन्ति तापाः सकलाः परत्र ।
यः सद्गतिं सम्प्रददाति भूमा
स मेऽन्तरे तिष्ठतु दिव्यधामा ॥ ९ ॥

स त्वं प्रसीदात्रिसुतार्तिहारिन्
दिगम्बर स्वीयमनोविहारिन् ।
दुष्टा लिपिर्या लिखितात्र धात्रा
कार्या त्वया साऽतिशुभा विधात्रा ॥ १० ॥

सर्वमङ्गलसम्युक्त सर्वैश्वर्यसमन्वित ।
प्रसन्ने त्वयि सर्वेशे किं केषां दुर्लभं कुह ॥ ११ ॥

हार्दान्धतिमिरं हन्तुं शुद्धज्ञानप्रकाशक ।
त्वदङ्घ्रिनखमाणिक्यद्युतिरेवालमीश नः ॥ १२ ॥

स्वकृपार्द्रकटाक्षेण वीक्षसे चेत्सकृद्धि माम् ।
भविष्यामि कृतार्थोऽत्र पात्रं चापि स्थितेस्तव ॥ १३ ॥

क्व च मन्दो वराकोऽहं क्व भवान्भगवान्प्रभुः ।
अथापि भवदावेश भाग्यवानस्मि ते दृशा ॥ १४ ॥

विहितानि मया नाना पातकानि च यद्यपि ।
अथापि ते प्रसादेन पवित्रोऽहं न संशयः ॥ १५ ॥

स्वलीलया त्वं हि जनान्पुनासि
तन्मे स्वलीला श्रवणं प्रयच्छ ।
तस्याः श्रुतेः सान्द्रविलोचनोऽहं
पुनामि चात्मानमतीव देव ॥ १६ ॥

पुरतस्ते स्फुटं वच्मि दोषराशिरहं किल ।
दोषा ममामिताः पांसुवृष्टिबिन्दुसमा विभोः ॥ १७ ॥

पापीयसामहं मुख्यस्त्वं तु कारुणिकाग्रणीः ।
दयनीयो न हि क्वापि मदन्य इति भाति मे ॥ १८ ॥

ईदृशं मां विलोक्यापि कृपालो ते मनो यदि ।
न द्रवेत्तर्हि किं वाच्यमदृष्टं मे तवाग्रतः ॥ १९ ॥

त्वमेव सृष्टवान्सर्वान् दत्तात्रेय दयानिधे ।
वयं दीनतराः पुत्रास्तवाकल्पाः स्वरक्षणे ॥ २० ॥

जयतु जयतु दत्तो देवसङ्घाभिपूज्यो
जयतु जयतु भद्रो भद्रदो भावुकेज्यः ।
जयतु जयतु नित्यो निर्मलज्ञानवेद्यो
जयतु जयतु सत्यः सत्यसन्धोऽनवद्यः ॥ २१ ॥

यद्यहं तव पुत्रः स्यां पिता माता त्वमेव मे ।
दयास्तन्यामृतेनाशु मातस्त्वमभिषिञ्च माम् ॥ २२ ॥

ईशाभिन्ननिमित्तोपादनात्स्रष्टुरस्य ते ।
जगद्योने सुतो नाहं दत्त मां परिपाह्यतः ॥ २३ ॥

तव वत्सस्य मे वाक्यं सूक्तं वाऽसूक्तमप्यहो ।
क्षन्तव्यं मेऽपराधश्च त्वत्तोऽन्या न गतिर्हि मे ॥ २४ ॥

अनन्यगतिकस्यास्य बालस्य मम ते पितः ।
न सर्वथोचितोपेक्षा दोषाणां गणनापि च ॥ २५ ॥

अज्ञानित्वादकल्पत्वाद्दोषा मम पदे पदे ।
भवन्ति किं करोमीश करुणावरुणालय ॥ २६ ॥

अथापि मेऽपराधैश्चेदायास्यन्तर्विषादताम् ।
पदाहतार्भकेणापि माता रुष्यति किं भुवि ॥ २७ ॥

रङ्कमङ्कगतं दीनं ताडयन्तं पदेन च ।
माता त्यजति किं बालं प्रत्युताश्वासयत्यहो ॥ २८ ॥

तादृशं मामकल्पं चेन्नाश्वासयसि भो प्रभो ।
अहहा बत दीनस्य त्वां विना मम का गतिः ॥ २९ ॥

शिशुर्नायं शठः स्वार्थीत्यपि नायातु तेऽन्तरम् ।
लोके हि क्षुधिता बालाः स्मरन्ति निजमातरम् ॥ ३० ॥

जीवनं भिन्नयोः पित्रोर्लोक एकतराच्छिशोः ।
त्वं तूभयं दत्त मम माऽस्तु निर्दयता मयि ॥ ३१ ॥

स्तवनेन न शक्तोऽस्मि त्वां प्रसादयितुं प्रभो ।
ब्रह्माद्याश्चकितास्तत्र मन्दोऽहं शक्नुयां कथम् ॥ ३२ ॥

दत्त त्वद्बालवाक्यानि सूक्तासूक्तानि यानि च ।
तानि स्वीकुरु सर्वज्ञ दयालो भक्तभावन ॥ ३३ ॥

ये त्वा शरणमापन्नाः कृतार्था अभवन्हि ते ।
एतद्विचार्य मनसा दत्त त्वां शरणं गतः ॥ ३४ ॥

त्वन्निष्ठास्त्वत्परा भक्तास्तव ते सुखभागिनः ।
इति शास्त्रानुरोधेन दत्त त्वां शरणं गतः ॥ ३५ ॥

स्वभक्ताननुगृह्णाति भगवान् भक्तवत्सलः ।
इति सञ्चित्य सञ्चित्य कथञ्चिद्धारयाम्यसून् ॥ ३६ ॥

त्वद्भक्तस्त्वदधीनोऽहमस्मि तुभ्यं समर्पितम् ।
तनुं मनो धनं चापि कृपां कुरु ममोपरि ॥ ३७ ॥

त्वयि भक्तिं नैव जाने न जानेऽर्चनपद्धतिम् ।
कृतं न दानधर्मादि प्रसादं कुरु केवलम् ॥ ३८ ॥

ब्रह्मचर्यादि नाचीर्णं नाधीता विधितः श्रुतिः ।
गार्हस्थ्यं विधिना दत्त न कृतं तत्प्रसीद मे ॥ ३९ ॥

न साधुसङ्गमो मेऽस्ति न कृतं वृद्धसेवनम् ।
न शास्त्रशासनं दत्त केवलं त्वं दयां कुरु ॥ ४० ॥

ज्ञातेऽपि धर्मे न हि मे प्रवृत्तिः
ज्ञातेऽप्यधर्मे न ततो निवृत्तिः ।
श्रीदत्तनाथेन हृदि स्थितेन
यथा नियुक्तोऽस्मि तथा करोमि ॥ ४१ ॥

कृतिः सेवा गतिर्यात्रा स्मृतिश्चिन्ता स्तुतिर्वचः ।
भवन्तु दत्त मे नित्यं त्वदीया एव सर्वथा ॥ ४२ ॥

प्रतिज्ञा ते न भक्ता मे नश्यन्तीति सुनिश्चितम् ।
श्रीदत्त चित्त आनीय जीवनं धारयाम्यहम् ॥ ४३ ॥

दत्तोऽहं ते मयेतीश आत्मदानेन योऽभवत् ।
अनसूयात्रिपुत्रः स श्रीदत्तः शरणं मम ॥ ४४ ॥

कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
अव्याहतगतिं चासौ श्रीदत्तः शरणं मम ॥ ४५ ॥

आन्वीक्षिकीमलर्काय विकल्पत्यागपूर्वकम् ।
योऽदादाचार्यवर्यः स श्रीदत्तः शरणं मम ॥ ४६ ॥

चतुर्विंशतिगुर्वाप्तं हेयोपादेयलक्षणम् ।
ज्ञानं यो यदवेऽदात्स श्रीदत्तः शरणं मम ॥ ४७ ॥

मदालसागर्भरत्नालर्काय प्राहिणोच्च यः ।
योगपूर्वात्मविज्ञानं श्रीदत्तः शरणं मम ॥ ४८ ॥

आयुराजाय सत्पुत्रं सेवाधर्मपराय यः ।
प्रददौ सद्गतिं चैष श्रीदत्तः शरणं मम ॥ ४९ ॥

लोकोपकृतये विष्णुदत्तविप्राय योऽर्पयत् ।
विद्यास्तच्छ्राद्धभुग्यः स श्रीदत्तः शरणं मम ॥ ५० ॥

भर्त्रा सहानुगमनविधिं यः प्राह सर्ववित् ।
राममात्रे रेणुकायै श्रीदत्तः शरणं मम ॥ ५१ ॥

समूलमाह्निकं कर्म सोमकीर्तिनृपाय यः ।
मोक्षोपयोगि सकलं श्रीदत्तः शरणं मम ॥ ५२ ॥

नामधारक भक्ताय निर्विण्णाय व्यदर्शयत् ।
तुष्टः स्तुत्या स्वरूपं स श्रीदत्तः शरणं मम ॥ ५३ ॥

यः कलिब्रह्मसंवादमिषेणाह युगस्थितीः ।
गुरुसेवां च सिद्धाऽऽस्याच्छ्रीदत्तः शरणं मम ॥ ५४ ॥

दुर्वासःशापमाश्रुत्य योऽम्बरीषार्थमव्ययः ।
नानावतारधारी स श्रीदत्तः शरणं मम ॥ ५५ ॥

अनसूयासतीदुग्धास्वादायेव त्रिरूपतः ।
अवातरदजो योऽपि श्रीदत्तः शरणं मम ॥ ५६ ॥

पीठापुरे यः सुमतिब्राह्मणीभक्तितोऽभवत् ।
श्रीपादस्तत्सुतस्त्राता श्रीदत्तः शरणं मम ॥ ५७ ॥

प्रकाशयामास सिद्धमुखात्स्थापनमादितः ।
महाबलेश्वरस्यैष श्रीदत्तः शरणं मम ॥ ५८ ॥

चण्डाल्यपि यतो मुक्ता गोकर्णे तत्र योऽवसत् ।
लिङ्गतीर्थमये त्र्यब्दं श्रीदत्तः शरणं मम ॥ ५९ ॥

कृष्णाद्वीपे कुरुपुरे कुपुत्रं जननीयुतम् ।
यो हि मृत्योरपाच्छ्रीपाच्छ्रीदत्तः शरणं मम ॥ ६० ॥

रजकायापि दास्यन्यो राज्यं कुरुपुरे प्रभुः ।
तिरोऽभूदज्ञदृष्ट्या स श्रीदत्तः शरणं मम ॥ ६१ ॥

विश्वासघातिनश्चोरान्स्वभक्तघ्नान्निहत्य यः ।
जीवयामास भक्तं स श्रीदत्तः शरणं मम ॥ ६२ ॥

करञ्जनगरेऽम्बायाः प्रदोषव्रतसिद्धये ।
योऽभूत्सुतो नृहर्याख्यः श्रीदत्तः शरणं मम ॥ ६३ ॥

मूको भूत्वा व्रतात्पश्चाद्वदन्वेदान्स्वमातरम् ।
प्रव्रजन् बोधयामास श्रीदत्तः शरणं मम ॥ ६४ ॥

काशीवासी स संन्यासी निराशीष्ट्वप्रदो वृषम् ।
वैदिकं विशदीकुर्वन् श्रीदत्तः शरणं मम ॥ ६५ ॥

भूमिं प्रदक्षिणीकृत्य सशिष्यो वीक्ष्य मातरम् ।
जहार द्विजशूलार्तिं श्रीदत्तः शरणं मम ॥ ६६ ॥

शिष्यत्वेनोररीकृत्य सायन्देवं ररक्ष यः ॥

भीते च क्रूरयवनाच्छ्रीदत्तः शरणं मम ॥ ६७ ॥

प्रेरयत्तीर्थयात्रायै तीर्थरूपोऽपि यः स्वकान् ।
सम्यग्धर्ममुपादिश्य श्रीदत्तः शरणं मम ॥ ६८ ॥

सशिष्यः पर्यलीक्षेत्रे वैद्यनाथसमीपतः ।
स्थित्वोद्दधार मूढो यः श्रीदत्तः शरणं मम ॥ ६९ ॥

विद्वत्सुतमविद्यं यो आगतं लोकनिन्दितम् ।
छिन्नजिह्वं बुधं चक्रे श्रीदत्तः शरणं मम ॥ ७० ॥

नृसिंहवाटिकास्थो यः प्रददौ शाकभुङ्निधिम् ।
दरिद्रब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ७१ ॥

भक्ताय त्रिस्थलीयात्रां दर्शयामास यः क्षणात् ।
चकार वरदं क्षेत्रं श्रीदत्तः शरणं मम ॥ ७२ ॥

प्रेतार्तिं वारयित्वा यो ब्राह्मण्यै भक्तिभावितः ।
ददौ पुत्रौ स गतिदः श्रीदत्तः शरणं मम ॥ ७३ ॥

तत्त्वं यो मृतपुत्रायै बोधयित्वाप्यजीवयत् ।
मृतं कल्पद्रुमस्थः स श्रीदत्तः शरणं मम ॥ ७४ ॥

दोहयामास भिक्षार्थं यो वन्ध्यां महिषीं प्रभुः ।
दारिद्र्यदावदावः स श्रीदत्तः शरणं मम ॥ ७५ ॥

राजप्रार्थित एत्यास्थान्मठे यो गाणगापुरे ।
ब्रह्मरक्षः समुद्धर्ता श्रीदत्तः शरणं मम ॥ ७६ ॥

विश्वरूपं निन्दकाय शिबिकास्थः स्वलङ्कृतः ।
गर्वहा दर्शयद्यः स श्रीदत्तः शरणं मम ॥ ७७ ॥

त्रिविक्रमेण चानीतौ गर्वितौ ब्राह्मणद्विषौ ।
बोधयामास तौ यः स श्रीदत्तः शरणं मम ॥ ७८ ॥

उक्त्वा चतुर्वेदशाखातदङ्गादिकमीश्वरः ।
विप्रगर्वहरो यः स श्रीदत्तः शरणं मम ॥ ७९ ॥

सप्तजन्मविदं सप्तरेखोल्लङ्घनतो ददौ ।
यो हीनाय श्रुतिस्फूर्तिः श्रीदत्तः शरणं मम ॥ ८० ॥

त्रिविक्रमायाह कर्मगतिं दत्तविदा पुनः ।
वियुक्तं पतितं चक्रे श्रीदत्तः शरणं मम ॥ ८१ ॥

रक्षसे वामदेवेन भस्ममाहात्म्यमुद्गतिम् ।
उक्तां त्रिविक्रमायाह श्रीदत्तः शरणं मम ॥ ८२ ॥

गोपीनाथसुतो रुग्णो मृतस्तत्स्त्री शुशोच ताम् ।
बोधयामास यो योगी श्रीदत्तः शरणं मम ॥ ८३ ॥

गुर्वगस्त्यर्षिसंवादरूपं स्त्रीधर्ममाह यः ।
रूपान्तरेण स प्राज्ञः श्रीदत्तः शरणं मम ॥ ८४ ॥

विधवाधर्ममादिश्यानुगमं चाक्षभस्मदः ।
अजीवयन्मृतं विप्रं श्रीदत्तः शरणं मम ॥ ८५ ॥

वेश्यासत्यै तु रुद्राक्षमाहात्म्ययुतमीट् कृतम् ।
प्रसादं प्राह यः सत्यै श्रीदत्तः शरणं मम ॥ ८६ ॥

शतरुद्रीयमाहात्म्यं मृतराट् सुतजीवनम् ।
सत्यै शशंस स गुरुः श्रीदत्तः शरणं मम ॥ ८७ ॥

कचाख्यानं स्त्रियो मन्त्रानर्हतार्थसुभाग्यदम् ।
सोमव्रतं च यः प्राह श्रीदत्तः शरणं मम ॥ ८८ ॥

ब्राह्मण्या दुःस्वभावं यो निवार्याह्निकमुत्तमम् ।
शशंस ब्राह्मणायासौ श्रीदत्तः शरणं मम ॥ ८९ ॥

गार्हस्थधर्मं विप्राय प्रत्यवायजिहासया ।
क्रममुक्त्यै य ऊचे स श्रीदत्तः शरणं मम ॥ ९० ॥

त्रिपुम्पर्याप्तपाकेन भोजयामास यो नृणाम् ।
सिद्धश्चतुःसहस्राणि श्रीदत्तः शरणं मम ॥ ९१ ॥

अश्वत्थसेवामादिश्य पुत्रौ योऽदात्फलप्रदः ।
चित्रकृद्वृद्धवन्ध्यायै श्रीदत्तः शरणं मम ॥ ९२ ॥

कारयित्वा शुष्ककाष्ठसेवां तद्वृक्षतां नयन् ।
विप्रकुष्ठं जहारासौ श्रीदत्तः शरणं मम ॥ ९३ ॥

भजन्तं कष्टतोऽप्याह सायन्देवं परीक्ष्य यः ।
गुरुसेवाविधानं स श्रीदत्तः शरणं मम ॥ ९४ ॥

शिवतोषकरीं काशीयात्रां भक्ताय योऽवदत् ।
सविधिं विहितां त्वष्ट्रा श्रीदत्तः शरणं मम ॥ ९५ ॥

कौण्डिण्यधर्मविहितमनन्तव्रतमाह यः ।
कारयामास तद्योऽपि श्रीदत्तः शरणं मम ॥ ९६ ॥

श्रीशैलं तन्तुकायासौ योगगत्या व्यदर्शयत् ।
शिवरात्रिव्रताहे स श्रीदत्तः शरणं मम ॥ ९७ ॥

ज्ञापयित्वाप्यर्मत्यत्वं स्वस्य दृष्ट्या चकार यः ।
विकुष्ठं नन्दिशर्माणं श्रीदत्तः शरणं मम ॥ ९८ ॥

नरकेसरिणे स्वप्ने स्वं कल्लेश्वरलिङ्गगम् ।
दर्शयित्वानुजग्राह श्रीदत्तः शरणं मम ॥ ९९ ॥

अष्टमूर्तिधरोऽप्यष्टग्रामगो भक्तवत्सलः ।
दीपावल्युत्सवेऽभूत्स श्रीदत्तः शरणं मम ॥ १०० ॥

अपक्वं छेदयित्वापि क्षेत्रे शतगुणं ततः ।
धान्यं शूद्राय योऽदात्स श्रीदत्तः शरणं मम ॥ १०१ ॥

गाणगापुरके क्षेत्रे योऽष्टतीर्थान्यदर्शयत् ।
भक्तेभ्यो भीमरथ्यां स श्रीदत्तः शरणं मम ॥ १०२ ॥

पूर्वदत्तवरायादाद्राज्यं स्फोटकरुग्घरः ।
म्लेच्छाय दृष्टिं चेष्टं स श्रीदत्तः शरणं मम ॥ १०३ ॥

श्रीशैलयात्रामिषेण वरदः पुष्पपीठगः ।
कलौ तिरोऽभवद्यः स श्रीदत्तः शरणं मम ॥ १०४ ॥

निद्रामातृपुरेऽस्य सह्यशिखरे पोठं मिमङ्क्षापुरे
काश्याख्ये करहाटकेऽर्घ्यमवरे भिक्षास्य कोलापुरे ।
पाञ्चाले भुजिरस्य विठ्ठलपुरे पत्रं विचित्रं पुरे
गान्धर्वे युजिराचमः कुरुपुरे दूरे स्मृतो नान्तरे ॥ १०५ ॥

अमलकमलवक्त्रः पद्मपत्राभनेत्रः
परविरतिकलत्रः सर्वथा यः स्वतन्त्रः ।
स च परमपवित्रः सत्कमण्डल्वमत्रः
परमरुचिरगात्रो योऽनसूयात्रिपुत्रः ॥ १०६ ॥

नमस्ते समस्तेष्टदात्रे विधात्रे
नमस्ते समस्तेडिताघौघहर्त्रे ।
नमस्ते समस्तेङ्गितज्ञाय भर्त्रे
नमस्ते समस्तेष्टकर्त्रेऽकहर्त्रे ॥ १०७ ॥

नमो नमस्तेऽस्तु पुरान्तकाय
नमो नमस्तेऽस्त्वसुरान्तकाय ।
नमो नमस्तेऽस्तु खलान्तकाय
दत्ताय भक्तार्तिविनाशकाय ॥ १०८ ॥

श्रीदत्त देवेश्वर मे प्रसीद
श्रीदत्त सर्वेश्वर मे प्रसीद ।
प्रसीद योगेश्वर देहि योगं
त्वदीयभक्तेः कुरु मा वियोगम् ॥ १०९ ॥

श्रीदत्तो जयतीह दत्तमनिशं ध्यायामि दत्तेन मे
हृच्छुद्धिर्विहिता ततोऽस्तु सततं दत्ताय तुभ्यं नमः ।
दत्तान्नास्ति परायणं श्रुतिमतं दत्तस्य दासोऽस्म्यहं
श्रीदत्ते परभक्तिरस्तु मम भो दत्त प्रसीदेश्वर ॥ ११० ॥

इति श्री परमहंस परिव्राजकाचार्य श्री श्री श्री वासुदेवानन्द सरस्वती यति वरेण्य विरचितं श्री दत्त भावसुधारस स्तोत्रम् सम्पूर्णम् ।


గమనిక: "శ్రీగణేశ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము..

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: