Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मत्तरोग शिरोपरिस्थित नृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भुविपद्मजाच्युतपूजितं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १ ॥
वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनां
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २ ॥
कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रत्नभुग्गणनाथभृत् भ्रमरार्चिताङ्घ्रिसरोरुहं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३ ॥
नक्तनादकलाधरं नगजापयोधरमण्डलं
लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४ ॥
रक्तनीरजतुल्यपादपयोज सन्मणि नूपुरं
बन्धनत्रय भेद पेशल पङ्कजाक्ष शिलीमुखम् ।
हेमशैलशरासनं पृथु शिञ्जिनीकृत दक्षकं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५ ॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
पुरातले मयाकृतं निखिलागममूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपा बलात्
ते महेश्वर शङ्कराखिलविश्वनायक शाश्वत ॥ ६ ॥
इति श्री दक्षिणामूर्ति पञ्चरत्न स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.