Sri Batuka Bhairava Brahma Kavacham – श्री बटुकभैरव ब्रह्म कवचम्



श्रीदेव्युवाच ।
भगवन् सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।
भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १ ॥

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।
सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २ ॥

इत्थं देव्या वचः श्रुत्वा प्रहस्याति स्वयं प्रभुः ।
उवाच वचनं तत्र देवदेवो महेश्वरः ॥ ३ ॥

ईश्वर उवाच ।
बटुककवचं दिव्यं शृणु मत्प्राणवल्लभे ।
चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४ ॥

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।
शङ्खवर्णद्वयो ब्रह्मा बटुकं चन्द्रशेखरः ॥ ५ ॥

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।
प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६ ॥

प्रणवं कामदं विद्याल्लज्जाबीजं च सिद्धिदम् ।
बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७ ॥

आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।
कुरु द्वयं महेशानि मोहने परिकीर्तितम् ॥ ८ ॥

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।
लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ।
द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ॥ ९ ॥

[* मनुः – ओं ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् । *]

अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीबटुकभैरवो देवता मम श्रीबटुकभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

अथ कवचम् ।
ओं पातु शिरसि नित्यं पातु ह्रीं कण्ठदेशके ॥ १० ॥

बटुकाय पातु नाभौ चापदुद्धारणाय च ।
कुरु द्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११ ॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ।
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२ ॥

ओं ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ।
ओं ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३ ॥

ओं ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।
गणराट् पातु जिह्वायामष्टभिः शक्तिभिः सह ॥ १४ ॥

दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।
विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदा ॥ १५ ॥

अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।
असिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६ ॥

चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।
उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७ ॥

नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।
संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८ ॥

बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।
हंसबीजं हृदि पातु सोऽहं रक्षतु पादयोः ॥ १९ ॥

प्राणापानौ समानं च उदानं व्यानमेव च ।
रक्षन्तु हारमूले च दशदिक्षु समन्ततः ॥ २० ॥

प्रणवः पातु सर्वाङ्गं लज्जाबीजं महाभये ।
इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१ ॥

चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् ।
यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२ ॥

सदानन्दमयो भूत्वा लभते परमं पदम् ।
य इदं कवचं देवी चिन्तयेन्मन्मुखोदितम् ॥ २३ ॥

कोटिजन्मार्जितं पापं विनश्यति च तत् क्षणात् ।
जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४ ॥

कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।
भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५ ॥

कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।
तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६ ॥

तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।
अस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७ ॥

इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः ।
न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८ ॥

मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते ।
इहलोके महारोगी दारिद्र्येणातिपीडितः ॥ २९ ॥

शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।
देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३० ॥

कार्पण्यरहितायालं बटुभक्तिरताय च ।
यः परस्मै प्रदाता वै तस्य तस्यातिसत्वरम् ॥ ३१ ॥

आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।
इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२ ॥

इति श्रीरुद्रयामले श्री बटुकभैरव ब्रह्म कवचम् ॥


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed