Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्फुरत्सहस्रारशिखातितीव्रं
सुदर्शनं भास्करकोटितुल्यम् ।
सुरद्विषां प्राणविनाशि विष्णोः
चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिलपूरितस्य
यस्य ध्वनिर्दानवदर्पहन्ता ।
तं पाञ्चजन्यं शशिकोटिशुभ्रं
शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां
कौमोदकीं दैत्यकुलैकहन्त्रीम् ।
वैकुण्ठवामाग्रकराग्रमृष्टां
गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
यज्ज्यानिनादश्रवणात्सुराणां
चेतांसि निर्मुक्तभयानि सद्यः ।
भवन्ति दैत्याशनिबाणवर्षैः
शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
रक्षोऽसुराणां कठिनोग्रकण्ठ-
-च्छेदक्षरत्क्षोणित दिग्धसारम् ।
तं नन्दकं नाम हरेः प्रदीप्तं
खड्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां
स्तवं पठेद्योऽनुदिनं प्रभाते ।
समस्त दुःखानि भयानि सद्यः
पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रु जलाग्निमध्ये
यदृच्छयापत्सु महाभयेषु ।
पठेत्विदं स्तोत्रमनाकुलात्मा
सुखीभवेत्तत्कृत सर्वरक्षः ॥ ७ ॥
[* अधिक श्लोकाः –
यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं
पीताम्बरं कौस्तुभवत्सलाञ्छितम् ।
श्रियासमेतोज्ज्वलशोभिताङ्गं
विष्णुं सदाऽहं शरणं प्रपद्ये ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः ।
अटव्यां नारसिंहश्क्ष्च सर्वतः पातु केशवः ॥
*]
इति पञ्चायुध स्तोत्रम् ॥
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.