Matsya Stotram – श्री मत्स्य स्तोत्रम्


नूनं त्वं भगवान् साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहायभूतानां धत्से रूपं जलौकसाम् ॥ १ ॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २ ॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३ ॥

न तेऽरविन्दाक्षपदोपसर्पणं
मृषा भावेत्सर्व सुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतां
-मदीदृशो यद्वपुरद्भुतं हि नः ॥ ४ ॥

इति श्रीमद्भागवते चतुर्विंशतितमाध्याये मत्स्यस्तोत्रम् ॥


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed