Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शक्रः पुरा जीवगणस्य कर्म-
-दोषात्समाः पञ्चदश क्षमायाम् ।
वृष्टिं न चक्रे धरणी च शुष्क-
-वापीतटागादिजलाशयाऽऽसीत् ॥ ३३-१ ॥
सस्यानि शुष्काणि खगान् मृगांश्च
भुक्त्वाऽप्यतृप्ताः क्षुधया तृषा च ।
निपीडिता मर्त्यशवानि चाहो
मर्त्या अनिष्टान्यपि भुञ्जते स्म ॥ ३३-२ ॥
क्षुधाऽर्दिताः सर्वजना महाऽऽप-
-द्विमुक्तिकामा मिलिताः कदाचित् ।
तपोधनं गौतममेत्य भक्त्या
पृष्टा मुनिं स्वागमहेतुमूचुः ॥ ३३-३ ॥
विज्ञाय सर्वं मुनिराट् कृपालुः
सम्पूज्य गायत्र्यभिधां शिवे त्वाम् ।
प्रसाद्य दृष्ट्वा च तवैव हस्ता-
-ल्लेभे नवं कामदपात्रमेकम् ॥ ३३-४ ॥
दुकूलसौवर्णविभूषणान्न-
-वस्त्रादि गावो महिषादयश्च ।
यद्यज्जनैरीप्सितमाशु तत्त-
-त्तत्पात्रतो देवि समुद्बभूव ॥ ३३-५ ॥
रोगो न दैन्यं न भयं न चैव
जना मिथो मोदकरा बभूवुः ।
ते गौतमस्योग्रतपःप्रभाव-
-मुच्चैर्जगुस्तां करुणार्द्रतां च ॥ ३३-६ ॥
एवं समा द्वादश तत्र सर्वे
निन्युः कदाचिन्मिलितेषु तेषु ।
श्रीनारदो देवि शशीव गाय-
-त्र्याश्चर्यशक्तिं प्रगृणन्नवाप ॥ ३३-७ ॥
स पूजितस्तत्र निषण्ण उच्चै-
-र्निवेद्य तां गौतमकीर्तिलक्ष्मीम् ।
सभासु शक्रादिसुरैः प्रगीतां
जगाम सन्तो जहृषुः कृतज्ञाः ॥ ३३-८ ॥
काले धरां वृष्टिसमृद्धसस्यां
दृष्ट्वा जना गौतममानमन्तः ।
आपृच्छ्य ते सज्जनसङ्गपूता
मुदा जवात्स्वस्वगृहाणि जग्मुः ॥ ३३-९ ॥
दुःखानि मे सन्तु यतो मनो मे
प्रतप्तसङ्घट्टितहेमशोभि ।
विशुद्धमस्तु त्वयी बद्धरागो
भवानि ते देवि नमोऽस्तु भूयः ॥ ३३-१० ॥
चतुस्त्रिंश दशकम् (३४) – गौतमशापम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.