Devi Narayaniyam Dasakam 26 – षड्विंश दशकम् (२६) – सुरथ कथा

राजा पुराऽऽसित् सुरथाभिधानः
स्वारोचिषे चैत्रकुलावतंसः ।
मन्वन्तरे सत्यरतो वदान्यः
सम्यक्प्रजापालनमात्रनिष्ठः ॥ २६-१ ॥

वीरोऽपि दैवात्समरे स कोला-
-विध्वंसिभिः शत्रुबलैर्जितः सन् ।
त्यक्त्वा स्वराज्यं वनमेत्य शान्तं
सुमेधसं प्राप मुनिं शरण्यम् ॥ २६-२ ॥

तपोवनं निर्भयमावसन् द्रु-
-च्छायाश्रितः शीतलवातपृक्तः ।
स एकदा राज्यगृहादिचिन्ता-
-पर्याकुलः कञ्चिदपश्यदार्तम् ॥ २६-३ ॥

राजा तमूचे सुरथोऽस्मि नाम्ना
जितोऽरिभिर्भ्रष्टविभूतिजालः ।
गृहादिचिन्तामथितान्तरङ्गः
कुतोऽसि कस्त्वं वद मां समस्तम् ॥ २६-४ ॥

श्रुत्वेति स प्रत्यवदत्समाधि-
-नामाऽस्मि वैश्यो हृतसर्ववित्तः ।
पत्नीसुताद्यैः स्वगृहान्निरस्त-
-स्तथाऽपि सोत्कण्ठमिमान् स्मरामि ॥ २६-५ ॥

अनेन साकं सुरथो विनीतो
मुनिं प्रणम्याह समधिनामा ।
गृहान्निरस्तोऽपि गृहादिचिन्तां
करोति सोत्कण्ठमयं महर्षे ॥ २६-६ ॥

ब्रह्मैव सत्यं परमद्वितीयं
मिथ्या जगत्सर्वमिदं च जाने ।
तथाऽपि मां बाधत एव राज्य-
-गृहादिचिन्ता वद तस्य हेतुम् ॥ २६-७ ॥

ऊचे तपस्वी शृणु भूप माया
सर्वस्य हेतुः सगुणाऽगुणा सा ।
बन्धं च मोक्षं च करोति सैव
सर्वेऽपि मायावशगा भवन्ति ॥ २६-८ ॥

ज्ञानं हरेरस्ति विधेश्च किन्तु
क्वचित्कदाचिन्मिलितौ मिथस्तौ ।
विमोहितौ कस्त्वमरे नु कस्त्व-
-मेवं विवादं किल चक्रतुः स्म ॥ २६-९ ॥

ज्ञानं द्विधैकं त्वपरोक्षमन्य-
-त्परोक्षमप्येतदवेहि राजन् ।
आद्यं महेश्याः कृपया विरक्त्या
भक्त्या महत्सङ्गमतश्च लभ्यम् ॥ २६-१० ॥

य एतदाप्नोति स सर्वमुक्तो
द्वेषश्च रागश्च न तस्य भूप ।
ज्ञानं द्वितीयं खलु शास्त्रवाक्य-
-विचारतो बुद्धिमतैव लभ्यम् ॥ २६-११ ॥

शमादिहीनो न च शास्त्रवाक्य-
-विचारमात्रेण विमुक्तिमेति ।
देव्याः कटाक्षैर्लभते च भुक्तिं
मुक्तिं च सा केवलभक्तिगम्या ॥ २६-१२ ॥

सम्पूज्य तां साकमनेन दुर्गां
कृत्वा प्रसन्नां स्वहितं लभस्व ।
श्रुत्वा मुनेर्वाक्यमुभौ महेशि
त्वां पूजयामासतुरिद्धभक्त्या ॥ २६-१३ ॥

वर्षद्वयान्ते भवतीं समीक्ष्य
स्वप्ने सतोषावपि तावतृप्तौ ।
दिदृक्षया जाग्रति चापि भक्ता-
-वाचेरतुर्द्वौ कठिनव्रतानि ॥ २६-१४ ॥

वर्षत्रयान्ते सुमुखीं प्रसन्नां
त्वां वीक्ष्य तौ तुष्टुवतुः प्रहृष्टौ ।
दैवात्समाधिस्त्वदनुग्रहेण
लब्ध्वा परं ज्ञानमवाप मुक्तिम् ॥ २६-१५ ॥

भोगाविरक्तः सुरथस्तु शीघ्रं
निष्कण्टकं राज्यमवाप भूयः ।
मन्वन्तरे भूपतिरष्टमे स
सावर्णिनामा च मनुर्बभूव ॥ २६-१६ ॥

त्वं भुक्तिकामाय ददासि भोगं
मुमुक्षवे संसृतिमोचनं च ।
किञ्चिन्न पृच्छामि परं विमूढो
नमामि ते पादसरोजयुग्मम् ॥ २६-१७ ॥

सप्तविंश दशकम् (२७) – शताक्ष्यवतारम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: