Devi Narayaniyam Dasakam 27 – सप्तविंश दशकम् (२७) – शताक्ष्यवतारम्

दैत्यः पुरा कश्चन दुर्गमाख्यः
प्रसादितात्पद्मभवात्तपोभिः ।
अवैदिकं वैदिकमप्यगृह्णा-
-न्मन्त्रं समस्तं दिविषज्जयैषी ॥ २७-१ ॥

वेदे गृहीते दितिजेन विप्राः
श्रुतिस्थिरा विस्मृतवेदमन्त्राः ।
सान्ध्यानि कर्माण्यपि नैव चक्रुः
क्षितिस्त्ववेदाध्ययना बभूव ॥ २७-२ ॥

हृतेषु मन्त्रेष्वखिलेषु पूजा-
-यज्ञादि भूमौ न कृतं मनुष्यैः ।
सुरा अशक्तास्तदलाभखिन्ना
दैत्येन युद्धे बलिना जिताश्च ॥ २७-३ ॥

त्यक्त्वा दिवं ते गिरिगह्वरेषु
निलीय वर्षाणि बहूनि निन्युः ।
वृष्टेरभावाद्धरणी च शुष्क-
-जलाशया तर्षनिपीडिताऽभूत् ॥ २७-४ ॥

सर्वे तृषार्ताश्च हिमाद्रिमेत्य
त्वां ध्यानपूजानुतिभिर्भजन्तः ।
प्रसादयामासुरनेककोटि-
-ब्रह्माण्डकर्त्रीमखिलार्तिहन्त्रीम् ॥ २७-५ ॥

दृष्टा दयार्द्राक्षिशता त्वमेभिः
कृपाश्रुवर्षैर्नवरात्रमुर्व्याम् ।
जलाशयान्पूर्णजलांश्चकर्थ
जनाः शताक्षीत्यभिधां ददुस्ते ॥ २७-६ ॥

क्षुत्पीडितानां च चराचराणां
सर्वत्र नानाविधमन्नमिष्टम् ।
स्वादूनि मूलानि फलानि चादाः
शाकम्भरीति प्रथिता ततोऽभूः ॥ २७-७ ॥

दैत्यस्तु विज्ञाय समस्तमस्त्र-
-शस्त्रैः ससैन्यः प्रहरन् वपुस्ते ।
रणाङ्गणे सायकविद्धगात्रः
सशब्दमुर्व्यां तरुवत्पपात ॥ २७-८ ॥

स चासुरात्मा खलु वेदमन्त्रान्
चिरं पठंस्त्वामभिवीक्षमाणः ।
गतायुराविश्य परात्मनि त्व-
-य्यवाप मुक्तिं मिषतां सुराणाम् ॥ २७-९ ॥

वेदान्हृतानब्जभवानने त्वं
पुनश्च निक्षिप्य जगत्सुरक्षाम् ।
कृत्वा नुता देवगणैर्नरैश्च
तुष्टा तिरोऽभूः करुणार्द्रनेत्रा ॥ २७-१० ॥

भक्तस्य वै दुर्गतिनाशिनी त्वं
सुखप्रदा दुर्गमहन्त्रि मातः ।
दुर्गेति नाम्ना विदिता च लोके
विचित्ररूपास्तव देवि लीलाः ॥ २७-११ ॥

कोऽप्यस्ति चित्ते मम दुर्गमोऽयं
ज्ञातस्त्वया नैव मया तु देवि ।
यः सन्ततं द्रुह्यति मे तमाशु
संहृत्य मां रक्ष नमो नमस्ते ॥ २७-१२ ॥

अष्टाविंश दशकम् (२८) – शक्त्यवमानदोषम् >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: