Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हालाहलाख्यानसुरान् पुरा तु
निजघ्नतुर्विष्णुहरौ रणान्ते ।
स्वेनैव वीर्येण जयोऽयमेवं
तौ मोहितौ दर्पमवापतुश्च ॥ २८-१ ॥
ततो विधिस्तौ तरुवद्विचेष्टौ
तेजोविहीनावभिवीक्ष्य भीतः ।
निमीलिताक्षः सकलं विचिन्त्य
जानन् सुतान् दक्षमुखानुवाच ॥ २८-२ ॥
पुत्रा हरिं पश्यत धूर्जटिं च
यौ नष्टशक्ती खलु शक्तिकोपात् ।
ततो जगद्भारयुतोऽस्मि यूयं
शक्तिं तपोभिः कुरुत प्रसन्नाम् ॥ २८-३ ॥
शक्तेः प्रसादेन हि पूर्ववत्तौ
स्यातां यशोवृद्धिरनेन वः स्यात् ।
शक्तिश्च यत्रावतरत्यमोघ-
-मेतत्कुलं याति कृतार्थतां च ॥ २८-४ ॥
शक्तेः कटाक्षैर्जगतोऽस्तु भद्र-
-मेवं निशम्याऽऽशु हिमाद्रिमेत्य ।
दक्षादयो ध्यानजपादिभिस्त्वा-
-माराध्य भक्त्याऽब्दशतानि निन्युः ॥ २८-५ ॥
दृष्टा पुरस्तैस्तु नुता त्वमात्थ
भीत्यालमार्त्या च हितं ददामि ।
गौरी च लक्ष्मीश्च ममैव शक्ती
ते शम्भवे प्राग् हरये च दत्ते ॥ २८-६ ॥
तौ शक्तिसाहाय्यत एव दैत्या-
-न्निजघ्नतुः सत्यमिदं तु ताभ्याम् ।
हा विस्मृतं शक्त्यवमानदोषा-
-द्विनष्टशक्ती खलु तावभूताम् ॥ २८-७ ॥
तौ पूर्ववत् स्तामिह शक्तिरेका
जायेत दक्षस्य कुले मदीया ।
क्षीराब्धितोऽन्या च पुरारिराद्यां
गृह्णातु पश्चादितरां च विष्णुः ॥ २८-८ ॥
सर्वे स्वशक्तिं परिपूज्य माया-
-बीजादिमन्त्रान्विधिवज्जपन्तः ।
विराट्स्वरूपं मम रूपमेत-
-त्सच्चित्स्वरूपं च सदा स्मरेत ॥ २८-९ ॥
प्रयात तुष्टा जगतां शुभं स्या-
-देवं त्वमाभाष्य तिरोदधाथ ।
कारुण्यतस्ते गिरिशो हरिश्च
शक्तावभूतां निजकर्म कर्तुम् ॥ २८-१० ॥
मातः कटाक्षा मयी ते पतन्तु
मा माऽस्तु मे शक्त्यवमानपापम् ।
सर्वान् स्वधर्मान् करवाण्यभीतो
भद्रं मम स्यात्सततं नमस्ते ॥ २८-११ ॥
एकोनत्रिंश दशकम् (२९) – देवीपीठोत्पत्तिः >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.