Bilva Upanishad – बिल्वोपनिषत्


अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः पूज्यमाना निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्पर शिवसायुज्यमाप्नोति? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान् सदाशिवः ॥

न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।
मत्स्वरूपस्त्वयं ज्ञेयो बिल्ववृक्षो विधानतः ।
एकेन बिल्वपत्रेण सन्तुष्टोऽस्मि महामुने ॥

इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥

भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।
कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥

इति पुनः पृच्छन्तं वामदेवमालिङ्ग्येति होवाच ॥

बुद्धिमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।
मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥

द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।
पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥

बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।
मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥

प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ।
भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥

सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।
प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ॥

देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।
ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥

वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।
इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥

पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।
उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥

मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।
त्रिमूर्तिस्त्रिगुणं बैल्वमग्निरूपं तथैव च ।
ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।
सबिल्वरूपं सगुणात्मरूपं त्रिमूर्तिरूपं शिवरूपमस्मि ॥

पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।
उत्तानबिल्वपत्रेण पूजयेत् सर्वसिद्धये ॥

तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।
बिल्वपत्रं विना वस्तु नास्ति किञ्चित्तवानघ ॥

तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।
उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके ॥

इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।
तिष्ठत्येव महावीरः पुनर्जन्मविवर्जितः ॥

सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।
मम सान्निध्यमाप्नोति प्रमथैः सह मोदते ॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
बिल्वपूजनतो लोके मत्पूजायाः परा न हि ॥

त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्णं त्रयीमयम् ।
त्रिगुणं त्रिजगन्मूर्तित्रयं शक्तित्रयं त्रिदृक् ॥

कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।
तेजस्त्रयमकारोकारमकारप्रणवात्मकम् ॥

देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।
मह्यं वै ब्राह्मणायेदं मया विज्ञप्तकामिकम् ॥

दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः ।
मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते ॥

त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।
बोधको ह्या सहस्राद्वै पङ्क्तिं पावयते ध्रुवम् ॥

त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।
श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥

अखण्डानन्दसंबोधमयो यस्मादहं मुने ।
विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥

अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।
प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥

उत्तानभागपर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।
मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥

येन केन प्रकारेण बिल्वकेनापि मां यज ।
तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥

बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।
यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥

य एतदधीते ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेय्यस्तेयी भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते । ओं सत्यम् ॥

इति बिल्वोपनिषत् समाप्ता ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed