Bilva Upanishad – बिल्वोपनिषत्



अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः पूज्यमाना निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्पर शिवसायुज्यमाप्नोति? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान् सदाशिवः ॥

न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।
मत्स्वरूपस्त्वयं ज्ञेयो बिल्ववृक्षो विधानतः ।
एकेन बिल्वपत्रेण सन्तुष्टोऽस्मि महामुने ॥

इति ब्रुवन्तं परमेश्वरं पुनः प्रणम्येति होवाच ॥

भगवन् सर्वलोकेश सत्यज्ञानादिलक्षण ।
कथं पूजा प्रकर्तव्या तां वदस्व दयानिधे ॥

इति पुनः पृच्छन्तं वामदेवमालिङ्ग्येति होवाच ॥

बुद्धिमांस्त्वमिति ज्ञात्वा वक्ष्यामि मुनिसत्तम ।
मम प्रियेण बिल्वेन त्वं कुरुष्व मदर्चनम् ॥

द्रव्याणामुत्तमैर्लोके मम पूजाविधौ तव ।
पत्रपुष्पाक्षतैर्दिव्यैर्बिल्वपत्रैः समर्चय ॥

बिल्वपत्रं विना पूजा व्यर्था भवति सर्वदा ।
मम रूपमिति ज्ञेयं सर्वरूपं तदेव हि ॥

प्रातः स्नात्वा विधानेन सन्ध्याकर्म समाप्य च ।
भूतिरुद्राक्षभरण उदीचीं दिशमाश्रयेत् ॥

सद्योजातादिभिर्मन्त्रैर्नमस्कृत्य पुनः पुनः ।
प्रदक्षिणत्रयं कृत्वा शिवरूपमिति स्फुटम् ॥

देवीं ध्यायेत्तथा वृक्षे विष्णुरूपं च सर्वदा ।
ब्रह्मरूपं च विज्ञेयं सर्वरूपं विभावयेत् ॥

वामदक्षिणमध्यस्थं ब्रह्मविष्णुशिवात्मकम् ।
इन्द्रादयश्च यक्षान्ता वृन्तभागे व्यवस्थिताः ॥

पृष्ठभागेऽमृतं यस्मादर्चयेन्मम तुष्टये ।
उत्तानबिल्वपत्रं च यः कुर्यान्मम मस्तके ॥

मम सायुज्यमाप्नोति नात्र कार्या विचारणा ।
त्रिमूर्तिस्त्रिगुणं बैल्वमग्निरूपं तथैव च ।
ब्रह्मरूपं कलारूपं वेदरूपं महामुने ॥

पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ।
सबिल्वरूपं सगुणात्मरूपं त्रिमूर्तिरूपं शिवरूपमस्मि ॥

पृष्ठभागेऽमृतं न्यस्तं देवैर्ब्रह्मादिभिः पुरा ।
उत्तानबिल्वपत्रेण पूजयेत् सर्वसिद्धये ॥

तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।
बिल्वपत्रं विना वस्तु नास्ति किञ्चित्तवानघ ॥

तस्मात् सर्वप्रयत्नेन बिल्वपत्रैः सदार्चय ।
उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके ॥

इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।
तिष्ठत्येव महावीरः पुनर्जन्मविवर्जितः ॥

सोदकैर्बिल्वपत्रैश्च यः कुर्यान्मम पूजनम् ।
मम सान्निध्यमाप्नोति प्रमथैः सह मोदते ॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
बिल्वपूजनतो लोके मत्पूजायाः परा न हि ॥

त्रिसुपर्णं त्रिऋचां रूपं त्रिसुपर्णं त्रयीमयम् ।
त्रिगुणं त्रिजगन्मूर्तित्रयं शक्तित्रयं त्रिदृक् ॥

कालत्रयं च सवनत्रयं लिङ्गत्रयं त्रिपात् ।
तेजस्त्रयमकारोकारमकारप्रणवात्मकम् ॥

देवेषु ब्राह्मणोऽहं हि त्रिसुपर्णमयाचितम् ।
मह्यं वै ब्राह्मणायेदं मया विज्ञप्तकामिकम् ॥

दद्याद्ब्रह्मभ्रूणवीरहत्यायाश्चान्यपातकैः ।
मुक्तोऽखण्डानन्दबोधो ब्रह्मभूयाय कल्पते ॥

त्रिसुपर्णोपनिषदः पठनात्पङ्क्तिपावनः ।
बोधको ह्या सहस्राद्वै पङ्क्तिं पावयते ध्रुवम् ॥

त्रिसुपर्णश्रुतिर्ह्येषा निष्कृतौ त्रिदले रता ।
श्रद्धत्स्व विद्वन्नाद्यं तदिति वेदानुशासनम् ॥

अखण्डानन्दसंबोधमयो यस्मादहं मुने ।
विन्यस्तामृतभागेन सुपर्णेनावकुण्ठय ॥

अमृतं मोक्षवाचन्तु तेनास्मदवकुण्ठनात् ।
प्राप्येते भोगमोक्षौ हि स्थित्यन्ते मदनुग्रहात् ॥

उत्तानभागपर्णेन मूर्ध्नि मे न्युब्जमर्पयेत् ।
मोक्षेऽमृतावकुण्ठोऽहं भवेयं तव कामधुक् ॥

येन केन प्रकारेण बिल्वकेनापि मां यज ।
तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥

बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दलैः ।
यः पूजयति मां भक्त्या सोऽहमेव न संशयः ॥

य एतदधीते ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेय्यस्तेयी भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकेभ्यः पूतो भवति । न च पुनरावर्तते । न च पुनरावर्तते । न च पुनरावर्तते । ओं सत्यम् ॥

इति बिल्वोपनिषत् समाप्ता ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed