Bhavanopanishad – भावनोपनिषत्


स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् ।
बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥

ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ओं शान्तिः शान्तिः शान्तिः ॥

ओं आत्मानमखण्डमण्डलाकारमावृत्य सकलब्रह्माण्डमण्डलं स्वप्रकाशं ध्यायेत् । श्रीगुरुः सर्वकारणभूता शक्तिः । तेन नवरन्ध्ररूपो देहः । नवशक्तिरूपग्ं श्रीचक्रम् । वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता । पुरुषार्थाः सागराः ॥ १ ॥

देहो नवरत्नद्वीपः । त्वगादिसप्तधातुभिरनेकैः संयुक्ताः । संकल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् । रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणरसाः षडृतवः । क्रियाशक्तिः पीठम् । कुण्डलिनी ज्ञानशक्तिर्गृहम् । इच्छाशक्तिर्महात्रिपुरसुन्दरी । ज्ञाता होता ज्ञानमग्निः ज्ञेयग्ं हविः । ज्ञातृज्ञानज्ञेया नामभेद भावनग्ं श्रीचक्रपूजनम् । नियति सहित शृङ्गारादयो नवरसा अणिमादयः । काम क्रोध लोभ मोह मद मात्सर्य पुण्य पापमया ब्राह्म्याद्यष्टशक्तयः ॥ २ ॥

आधारनवकं मुद्रा शक्तयः । पृथिव्यप्तेजोवाय्वाकाश श्रोत्रत्वक्चक्षुर्जिह्वाघ्राण वाक्पाणिपादपायूपस्थ मनोविकाराः षोडश शक्तयः । वचनादानगमनविसर्गानन्द हानोपादानोपेक्षा बुद्धयोऽनङ्गकुसुमादि शक्तयोऽष्टौ । अलंबुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशोवत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः । सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः । प्राणापान व्यानोदान समान नाग कूर्म कृकर देवदत्त धनंजया इति दश वायवः । सर्वसिद्धिप्रदादि देव्यो बहिर्दशारगा देवताः ॥ ३ ॥

एतद्वायुदशक संसर्गोपाधिभेधेन रेचकपूरकशोषकदाहकप्लावका अमृतमिति प्राणमुख्यत्वेन पञ्चविधो जठराग्निर्भवति । क्षारकोद्गारकः क्षोभको मोहको जृंभक इत्यपानमुख्यत्वेन पञ्चविधोऽस्ति । तेन मनुष्याणां मोहको दाहको भक्ष्य भोज्य लेह्य चोष्य पेयात्मकं चतुर्विधमन्नं पाचयति । एता दश वह्निकलाः सर्वज्ञत्वाद्यन्तर्दशारगा देवताः । शीतोष्ण सुखदुःखेच्छा सत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्टौ ॥ ४ ॥

शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा । मन इक्षुधनुः । वश्यो बाणो । रागः पाशो । द्वेषोऽङ्कुशः । अव्यक्तमहत्तत्त्वमहङ्काराः कामेश्वरी वज्रेश्वरी भगमालिन्योऽन्तस्त्रिकोणाग्रगा देवताः । पञ्चदश तिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदशनित्याः । श्रद्धानुरूपा धीर्देवता । तयोः कामेश्वरी सदानन्द घना परिपूर्ण स्वात्मैक्यरूपा देवता ललिता ॥ ५ ॥

सलिलमिति सौहित्यकरणग्ं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः । अस्ति नास्तीति कर्तव्यतानूपचारः । बाह्याभ्यन्तःकरणानां रूपग्रहण योग्यता स्त्वित्यावाहनम् । तस्य बाह्याभ्यन्तःकरणानां एकरूपविषयग्रहणमासनम् । रक्तशुक्लपदैकीकरणं पाद्यम् । उज्ज्वलदामोदानन्दासन दानमर्घ्यम् । स्वच्छं स्वतःसिद्धमित्याचमनीयम् । चिच्चन्द्रमयीति सर्वाङ्गस्रवणग्ं स्नानम् । चिदग्निस्वरूप परमानन्द शक्तिस्फुरणं वस्त्रम् । प्रत्येकग्ं सप्तविंशतिधा भिन्नत्वेनेच्छा ज्ञान क्रियात्मक ब्रह्मग्रन्थि मद्रस तन्तु ब्रह्मनाडी ब्रह्मसूत्रम् । स्व व्यतिरिक्त वस्तु सङ्गरहित स्मरणं विभूषणम् । सत्संग परिपूर्णतानुस्मरणं गन्धः । समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् ॥ ६ ॥

तेषामेव सर्वदा स्वीकरणं धूपः । पवनावच्छिन्नोर्ध्व ज्वलनसच्चिदुल्काकाश देहो दीपः । समस्त यातायातवर्जनं नैवेद्यम् । अवस्थात्रयाणामेकीकरणं तांबूलम् । मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् । तुरीयावस्था नमस्कारः । देहशून्य प्रमातृता निमज्जनं बलिहरणम् । सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्य नित्यात्मविलापनग्ं होमः । स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् ॥ ७ ॥

एवं मुहूर्तत्रयं भावनया युक्तो भवति तस्य देवतात्मैक्य सिद्धिः । चिंतित कार्याणि अयत्नेन सिद्ध्यंति । स एव शिवयोगीति कथ्यते । कादि हादि मतोक्तेन भावना प्रतिपादिता जीवन्मुक्तो भवति । य एवं वेद । इत्युपनिषत् ॥ ८ ॥

ओं भद्रं कर्णेभिः शृणुयाम देवा । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाग्ंसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । ओं शान्तिः शान्तिः शान्तिः ॥

इत्यथर्वणवेदे भावनोपनिषत्संपूर्णा ॥


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed