Balopanishad – श्री बालोपनिषत्


ऐं नमः श्रीबालायै ॥

श्रीबालोपनिषदं व्याख्यास्यामः ॥ १ ॥

शृणु प्रिये चक्र चक्रस्था महात्मा महागुह्या गुह्यतरा श्रेष्ठातिश्रेष्ठा भव्या भव्यतरा त्रिगुणगा गुणातीता गुणस्वरूपा गुङ्कारमध्यस्था रेचकपूरककुम्भस्वरूपा अष्टाङ्गरूपा चतुर्दशभुवनमालिनी चतुर्दशभुवनेश्वरी चतुर्वेदवेदाङ्गपारगा साङ्ख्यासाङ्ख्यस्वरूपा शान्ता शाक्तप्रिया शाक्तधर्मपरायणा सर्वभद्रा विभद्रा सुभद्रा भद्रभद्रान्तर्गता वीरभद्रावतारिणी शून्या शून्यतरा शून्यप्रभवा शून्यालया शून्यज्ञानप्रदा शून्यातीता शूलहस्ता महासुन्दरी सुरासुरारिविध्वंसिनी शूकरानना सुभगा शुभदा सुशुभा शस्त्रास्त्रधारिणी पराप्रासादवामाङ्गा परमेश्वरी परापरा परमात्मा पापघ्ना पञ्चेन्द्रियालया परब्रह्मावतारा पद्महस्ता पाञ्चजन्या पुण्डरीकाक्षा पशुपाशहारिणी पशुपपूज्या पाखण्डध्वंसिनी पवनेशी पवनस्वरूपा पद्यापद्यमयी पद्यज्ञानप्रदात्री पुस्तहस्ता पक्वबिम्बफलप्रभा प्रेतासना प्रजापाली प्रपञ्चहारिणी पृथिवीरूपा पीताम्बरा पिशाचगणसेविता पितृवनस्था हंसस्वरूपा परमहंसी ऐङ्कारबीजा वाग्भवस्था वाग्भवबीजोद्योगिनी वाग्भवेशी वाग्भवबीजमालिनी यः एवं वेद स वेदवित् ॥ २ ॥

बालोपनिषदं यः पठति यः शृणोति तस्याघं सर्वं नश्यति चतुर्वर्गफलं प्राप्नोति लयज्ञानं भवति ज्योतिर्मये प्रलीयते षट्कर्मविद्या सिद्ध्यति मनोरथं पूरयति सर्वारिष्टं नाशयति धनं एधति आयुर्वृद्धिर्भवति निर्वाणपदं गच्छति महाजनत्वं प्राप्नोति सर्वशास्त्रं ज्ञापयति बहुतरसिद्धिं नयति डाकिन्यादि सर्वं पलायति ओङ्कारे प्रमीलति ॥ ३ ॥

इति अथर्ववेदीया श्रीबालोपनिषत् समाप्ता ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed