Kundalini Stotram – कुण्डलिनी स्तोत्रम्


नमस्ते देवदेवेशि योगीशप्राणवल्लभे ।
सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥

प्रसुप्त भुजगाकारे सर्वदा कारणप्रिये ।
कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥

असारे घोरसंसारे भवरोगात् कुलेश्वरी ।
सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥

इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः ।
मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४ ॥

इति प्राणतोषिणीतन्त्रे कुण्डलिनी स्तोत्रम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed