Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
लक्ष्मीशे योगनिद्रां प्रभजति भुजगाधीशतल्पे सदर्पा-
-वुत्पन्नौ दानवौ तच्छ्रवणमलमयाङ्गौ मधुं कैटभं च ।
दृष्ट्वा भीतस्य धातुः स्तुतिभिरभिनुतां आशु तौ नाशयन्तीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ १ ॥
युद्धे निर्जित्य दैत्यस्त्रिभुवनमखिलं यस्तदीयेषु धिष्ण्ये-
-ष्वास्थाय स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण ।
तं सामात्याप्तमित्रं महिषमपि निहत्यास्य मूर्धाधिरूढां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ २ ॥
विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि-
-त्रासात्त्रातुं कुलं नः पुनरपि च महासङ्कटेष्वीदृशेषु ।
आविर्भूयाः पुरस्तादिति चरणनमत्सर्वगीर्वाणवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ३ ॥
हन्तुं शुम्भं निशुम्भं विबुधगणनुतां हेमडोलां हिमाद्रा-
-वारूढां व्यूढदर्पान् युधि निहतवतीं धूम्रदृक्चण्डमुण्डान् ।
चामुण्डाख्यां दधानां उपशमितमहारक्तबीजोपसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ४ ॥
ब्रह्मेशस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वभृत्याः
कृत्वा हत्वा निशुम्भं जितविबुधगणं त्रासिताशेषलोकम् ।
एकीभूयाथ शुम्भं रणशिरसि निहत्यास्थितामात्तखड्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ५ ॥
उत्पन्ना नन्दजेति स्वयमवनितले शुम्भमन्यं निशुम्भं
भ्रामर्याख्यारुणाख्या पुनरपि जननी दुर्गमाख्यं निहन्तुम् ।
भीमा शाकम्भरीति त्रुटितरिपुभटां रक्तदन्तेति जातां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ६ ॥
त्रैगुण्यानां गुणानां अनुसरणकलाकेलि नानावतारैः
त्रैलोक्यत्राणशीलां दनुजकुलवनवह्निलीलां सलीलाम् ।
देवीं सच्चिन्मयीं तां वितरितविनमत्सत्रिवर्गापवर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ७ ॥
सिंहारूढां त्रिनेत्रीं करतलविलसच्छङ्खचक्रासिरम्यां
भक्ताभीष्टप्रदात्रीं रिपुमथनकरीं सर्वलोकैकवन्द्याम् ।
सर्वालङ्कारयुक्तां शशियुतमकुटां श्यामलाङ्गीं कृशाङ्गीं
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ८ ॥
त्रायस्व स्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था
पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्त्वनन्याः जनन्याः ।
तत्तुभ्यं स्यान्नमस्येत्यवनतविबुधाह्लादिवीक्षाविसर्गां
दुर्गां देवीं प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥ ९ ॥
एतं सन्तः पठन्तु स्तवमखिलविपज्जालतूलानलाभं
हृन्मोहध्वान्तभानुप्रथितमखिलसङ्कल्पकल्पद्रुकल्पम् ।
दौर्गं दौर्गत्यघोरातपतुहिनकरप्रख्यमंहोगजेन्द्र-
-श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्क्ष्यप्रभावम् ॥ १० ॥
इति आपदुन्मूलन श्री दुर्गा स्तोत्रम् ।
इतर श्री दुर्गा स्तोत्राणि पश्यतु ।
పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.