Ayodhya Kanda Sarga 118 – अयोध्याकाण्ड अष्टादशोत्तरशततमः सर्गः (११८)


॥ दिव्यालङ्कारग्रहणम् ॥

सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १ ॥

नैतदाश्चर्य्यमार्यायाः यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ २ ॥

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ ३ ॥

किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ ४ ॥

यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ।
तामेव नृपनारीणामन्यासामपि वर्तते ॥ ५ ॥

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।
मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥ ६ ॥

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ ७ ॥

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ ८ ॥

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ ९ ॥

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२ ॥

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ १३ ॥

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ १४ ॥

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ १५ ॥

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ १६ ॥

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ १७ ॥

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ १८ ॥

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति ॥ १९ ॥

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ २० ॥

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २१ ॥

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २२ ॥

तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २३ ॥

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २४ ॥

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २५ ॥

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २६ ॥

मिथिलाऽधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २७ ॥

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २८ ॥

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ॥ २९ ॥

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ ३० ॥

अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ ३१ ॥

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाऽधिपः ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ ३२ ॥

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ ३३ ॥

पतिसम्योगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ ३४ ॥

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ ३५ ॥

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।
चिन्ताऽर्णवगतः पारं नाससादाप्लवो यथा ॥ ३६ ॥

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ ३७ ॥

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ ३८ ॥

महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ ३९ ॥

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ ४० ॥

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ ४१ ॥

इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४२ ॥

तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ ४३ ॥

सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ ४४ ॥

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ।
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४५ ॥

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।
सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ ॥ ४६ ॥

धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ॥ ४७ ॥

निमेषान्तरमात्रेण तदानम्य स वीर्यवान् ।
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ ४८ ॥

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥ ४९ ॥

ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ५० ॥

दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश्छन्दमयोध्याऽधिपतेः प्रभोः ॥ ५१ ॥

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ ५२ ॥

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्याऽर्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३ ॥

एवं दत्ताऽस्मि रामाय तदा तस्मिन् स्वयंवरे ।
अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम् ॥ ५४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥

अयोध्याकाण्ड एकोनविंशतिशततमः सर्गः (११९) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed