Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ दिव्यालङ्कारग्रहणम् ॥
सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १ ॥
नैतदाश्चर्य्यमार्यायाः यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ २ ॥
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ ३ ॥
किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ ४ ॥
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ।
तामेव नृपनारीणामन्यासामपि वर्तते ॥ ५ ॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।
मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥ ६ ॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ ७ ॥
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ ८ ॥
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ ९ ॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२ ॥
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ १३ ॥
नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ १४ ॥
उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ १५ ॥
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ १६ ॥
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ १७ ॥
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ १८ ॥
मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति ॥ १९ ॥
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ २० ॥
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २१ ॥
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २२ ॥
तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २३ ॥
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २४ ॥
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २५ ॥
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २६ ॥
मिथिलाऽधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २७ ॥
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २८ ॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ॥ २९ ॥
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ ३० ॥
अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ॥ ३१ ॥
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाऽधिपः ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ ३२ ॥
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ ३३ ॥
पतिसम्योगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ ३४ ॥
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ ३५ ॥
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः ।
चिन्ताऽर्णवगतः पारं नाससादाप्लवो यथा ॥ ३६ ॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपालः पतिं मम ॥ ३७ ॥
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ ३८ ॥
महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ ३९ ॥
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ ४० ॥
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ ४१ ॥
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।
तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४२ ॥
तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ ४३ ॥
सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ ४४ ॥
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ।
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४५ ॥
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।
सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ ॥ ४६ ॥
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ॥ ४७ ॥
निमेषान्तरमात्रेण तदानम्य स वीर्यवान् ।
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ ४८ ॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।
तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥ ४९ ॥
ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ५० ॥
दीयमानां न तु तदा प्रतिजग्राह राघवः ।
अविज्ञाय पितुश्छन्दमयोध्याऽधिपतेः प्रभोः ॥ ५१ ॥
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ ५२ ॥
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्याऽर्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३ ॥
एवं दत्ताऽस्मि रामाय तदा तस्मिन् स्वयंवरे ।
अनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम् ॥ ५४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥
अयोध्याकाण्ड एकोनविंशतिशततमः सर्गः (११९) >>
सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

