Ayodhya Kanda Sarga 119 – अयोध्याकाण्ड एकोनविंशतिशततमः सर्गः (११९)



॥ दण्डकारण्यप्रवेशः ॥

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ १ ॥

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २ ॥

रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पततित्रणाम् ॥ ३ ॥

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ।
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ॥ ४ ॥

सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ।
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ॥ ५ ॥

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ।
अल्पपर्णाहि तरवो घनीभूताः समन्ततः ॥ ६ ॥

विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ।
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ॥ ७ ॥

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ॥ ८ ॥

जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ।
गम्यतामनुजानामि रामस्यानुचरी भव ॥ ९ ॥

कथयन्त्या हि मधुरं त्वयाऽहं परितोषिता ।
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ॥ १० ॥

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।
सा तथा समलङ्कृत्य सीता सुरसुतोपमा ॥ ११ ॥

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।
तथा तु भूषितां सीतां ददर्श वदतां वरः ॥ १२ ॥

राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ।
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ॥ १३ ॥

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ॥ १४ ॥

मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ॥ १५ ॥

अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ।
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ॥ १६ ॥

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ॥ १७ ॥

वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ।
रक्षांसि पुरुषादानि नानारूपाणि राघव ॥ १८ ॥

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ।
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ॥ १९ ॥

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २० ॥

इतीव तैः प्राञ्जलिभिस्तपस्विभिः
द्विजैः कृतः स्वस्त्ययनः परन्तपः ।
वनं सभार्यः प्रविवेश राघवः
सलक्ष्मणः सूर्यमिवाभ्रमण्डलम् ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशतिशततमः सर्गः ॥ ११९ ॥

॥ इत्ययोध्याकाण्डः समाप्तः ॥


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed