Ayodhya Kanda Sarga 119 – अयोध्याकाण्ड एकोनविंशतिशततमः सर्गः (११९)


॥ दण्डकारण्यप्रवेशः ॥

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ १ ॥

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥ २ ॥

रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पततित्रणाम् ॥ ३ ॥

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ।
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ॥ ४ ॥

सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ।
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ॥ ५ ॥

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ।
अल्पपर्णाहि तरवो घनीभूताः समन्ततः ॥ ६ ॥

विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ।
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ॥ ७ ॥

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ॥ ८ ॥

जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ।
गम्यतामनुजानामि रामस्यानुचरी भव ॥ ९ ॥

कथयन्त्या हि मधुरं त्वयाऽहं परितोषिता ।
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ॥ १० ॥

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।
सा तथा समलङ्कृत्य सीता सुरसुतोपमा ॥ ११ ॥

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।
तथा तु भूषितां सीतां ददर्श वदतां वरः ॥ १२ ॥

राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ।
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ॥ १३ ॥

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ॥ १४ ॥

मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ॥ १५ ॥

अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ।
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ॥ १६ ॥

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ॥ १७ ॥

वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ।
रक्षांसि पुरुषादानि नानारूपाणि राघव ॥ १८ ॥

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ।
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ॥ १९ ॥

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ २० ॥

इतीव तैः प्राञ्जलिभिस्तपस्विभिः
द्विजैः कृतः स्वस्त्ययनः परन्तपः ।
वनं सभार्यः प्रविवेश राघवः
सलक्ष्मणः सूर्यमिवाभ्रमण्डलम् ॥ २१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशतिशततमः सर्गः ॥ ११९ ॥

॥ इत्ययोध्याकाण्डः समाप्तः ॥


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed