Ayodhya Kanda Sarga 117 – अयोध्याकाण्ड सप्तदशोत्तरशततमः सर्गः (११७)


॥ सीतापातिव्रत्यप्रशंसा ॥

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ १ ॥

इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २ ॥

स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्चोपमर्दः कृतो भृशम् ॥ ३ ॥

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ ४ ॥

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ ५ ॥

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ ६ ॥

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ ७ ॥

अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ॥ ८ ॥

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ॥ ९ ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ॥ १० ॥

दशवर्षसहस्राणि यया तप्तं महत्तपः ।
अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्तिताः ॥ ११ ॥

देवकार्यनिमित्तं च यया सन्त्वरमाणया ।
दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥ १२ ॥

तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ॥ १३ ॥

अनसूयेति या लोके कर्मभिः ख्यातिमागता ।
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ॥ १४ ॥

सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ॥ १५ ॥

श्रेयोऽर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ।
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ॥ १६ ॥

तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।
शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम् ॥ १७ ॥

सततं वेपमानाङ्गीं प्रवाते कदली यथा ।
तां तु सीता महाभागामनसूयां पतिव्रताम् ॥ १८ ॥

अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ॥ १९ ॥

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ॥ २० ॥

सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ॥ २१ ॥

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ॥ २२ ॥

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ।
दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः ॥ २३ ॥

स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ।
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ॥ २४ ॥

सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ।
न त्वेनमवगच्छन्ति गुणदोषमसत् स्त्रियः ॥ २५ ॥

कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः ।
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ॥ २६ ॥

अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ।
त्वद्विधास्तु गुणैर्युक्ताः दृष्टलोकपरावराः ।
स्त्रियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २७ ॥

तदेवमेनं त्वमनुव्रता सती
पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्तुः सहधर्मचारिणी
यशश्च धर्मं च ततः समाप्स्यसि ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥

अयोध्याकाण्ड अष्टादशोत्तरशततमः सर्गः (११८) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed