Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
षट्कोणान्तरमध्यपद्मनिलयं तत्सन्धिदिष्ठाननं
चक्राद्यायुधचारुभूषणभुजं सज्वालकेशोदयम् ।
वस्त्रालेपनमाल्यविग्रहतनुं तं फालनेत्रं गुणैः
प्रत्यालीढपदाम्बुजं त्रिनयनं चक्राधिराजं भजे ॥ १ ॥
शङ्खं शार्ङ्गं सखेटं हलपरशु गदा कुन्त पाशान् दधानं
अन्यैर्वामैश्च चक्रेष्वसि मुसललसद्वज्रशूलां कुशाग्नीन् ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्याये षट्कोण संस्थं सकल रिपुजन प्राणसंहार चक्रम् ॥ २ ॥
व्याप्ति व्याप्तान्तरिक्षं क्षरदरुण निभा वासिता शान्तरालं
दंष्ट्रा निष्ठ्यूत वह्नि प्रविरल शबलादभ्रशुभ्राट्टहासम् ।
शङ्खारि श्री गदाम्भोरुह मुसल धनुः पाश दीप्ताङ्कुशाड्यैः
दोर्भिः पिङ्गाक्षवेषं प्रणमत शिरसा विष्णु चक्राभिदानम् ॥ ३ ॥
ध्याये चतुर्भुजं देवं शङ्ख चक्र वराभयम् ।
ध्याये सुदर्शनं वीरं सर्वकार्यार्थ सिद्धये ॥ ४ ॥
सुदर्शन नमस्तेऽस्तु नमस्ते शत्रुसंहर ।
अर्चयाम्युपचारेण विष्णुरूपाय ते नमः ॥ ५ ॥
चक्रद्वयं चाङ्कुशपाशयुक्तं
चतुर्भुजं भीकर सिंहवक्त्रम् ।
नेत्रत्रयालङ्कृत निर्मलाङ्गं
नमामि सौदर्शन नारसिंहम् ॥ ६ ॥
शङ्ख चक्र धरं देवं ज्वालाचक्रमयं हरिम् ।
रोगघ्नं परमानन्दं चिन्तितार्थ प्रदायकम् ॥ ७ ॥
हृत्पङ्कजे समासीनं ज्वालामय सुदर्शनम् ।
शङ्ख चक्राम्बुज गदा भूषितं रोहनाशनम् ॥ ८ ॥
ध्यायेत्सौदर्शनं देवं आत्मरक्षाकरं प्रभुम् ।
ज्वालामाला परीतं च ध्याये हृदयपङ्कजे ॥ ९ ॥
ध्याये सुदर्शनं देवं खेदनं परविद्ययोः ।
सूर्यकोटिप्रतीकाशं ध्याये हृदय पङ्कजे ॥ १० ॥
शङ्ख चक्र धरं देवं कोटिसूर्य समप्रभम् ।
शत्रूणां मारणार्थं च अस्त्रचक्रं नमाम्यहम् ॥ ११ ॥
पाशाङ्कुशधरं देवं परिपूर्ण कृपाकरम् ।
वशीकरणबाणाय सम्यक्सौदर्शनाय च ॥ १२ ॥
रक्तवस्त्रधरं देवं रक्तमाल्यानुलेपनम् ।
वन्देऽहं वश्य बाणाय चक्रराजाय ते नमः ॥ १३ ॥
पाशाङ्कुशं शक्ति शूलं चतुर्बाहुं त्रिलोचनम् ।
सम्मोहनकरं वीरं ध्याये सौदर्शनेश्वरम् ॥ १४ ॥
सम्मोहनास्त्रराजाय नमः सौदर्शनाय च ।
मोहनार्थं भजाम्याशु सम्मोहय जगत्रयम् ॥ १५ ॥
ज्वालामालानिभं देवं सहस्रकरसम्युतम् ।
शत्रु मारण कार्येषु भजे हृच्चक्रनायकम् ॥ १६ ॥
आकर्षणकरं देवं पाशाङ्कुशधरं हरिम् ।
सम्मोहाकर्षणास्त्रं च धृत नारायणं प्रभुम् ॥ १७ ॥
चक्रराज नमस्तेस्तु सर्वाकर्षण सायक ।
आकर्षय जगन्नाथ शरणं त्वां गतोस्म्यहम् ॥ १८ ॥
चक्राद्यायुध चारु षोडशभुजं स ज्वाल केशोज्ज्वलं
चक्रं शङ्ख गदाब्ज शूल शरधींश्चापं च पाशाङ्कुशौ ।
कुन्तं चर्महलं भुशुण्डि परशू वज्रं तथा तर्जनीं
हेतिं षोडशधारिणं रिपुहरं श्रीचक्रराजं भजे ॥ १९ ॥
सिंहासन समासीनं देवं चक्रं सुरेश्वरं
श्रोतुं चक्रेश कवचमब्रुवन् सुरसत्तमाः ।
देव देव सहस्राक्ष दैत्यान्तक शचीपते
त्वया सौदर्शिनीं रक्षां श्रोतुमिच्छामहे वयम् ॥ २० ॥
तदनन्तरं श्री सुदर्शन कवचम् पठतु ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

