Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेव्युवाच ।
स्वामिन् सर्वजगन्नाथ प्रणतार्तिविनाशन ।
कालिकायाः महास्तोत्रं ब्रूहि भक्तेष्टदायकम् ॥ १ ॥
श्रीदक्षिणामूर्तिरुवाच ।
एवं कालीं महादेवीं सम्पूज्य नरपुङ्गवः ।
स्तोत्रं जपेदिदं नित्यं कालिकाया महेश्वरि ॥ २ ॥
ओं क्रीम् ।
जय त्वं कालिके देवि जय मातर्महेश्वरि ।
जय दिव्ये महालक्ष्मि महाकालि नमोऽस्तु ते ॥ ३ ॥
मुक्तकेशि नमस्तेऽस्तु नमस्तुभ्यं चतुर्भुजे ।
वीरकालि नमस्तुभ्यं मृत्युकालि नमो नमः ॥ ४ ॥
नमः करालवदने नमस्ते घोररूपिणि ।
भद्रकालि नमस्तुभ्यं महाकालप्रिये नमः ॥ ५ ॥
जय त्वं सर्वविद्यानामधीश्वरि शिवप्रिये ।
वागीश्वरि महादेवि नमस्तुभ्यं दिगम्बरे ॥ ६ ॥
नीलमेघप्रतीकाशे नीलाम्बरविराजिते ।
आदिमध्यान्तरहिते नमस्ते गणकालिके ॥ ७ ॥
सर्वसम्पत्प्रदे नित्यं सर्वोपद्रवनाशिनि ।
महामाये महाकृष्णे भक्तशत्रुविनाशिनि ॥ ८ ॥
जगन्मातर्जगद्रूपे विरूपाक्षि नमोऽस्तु ते ।
सिंहारूढे नमस्तुभ्यं गजारूढे नमो नमः ॥ ९ ॥
नमो भद्राङ्गि रक्ताक्षि महादेवस्वरूपिणि ।
निरीश्वरि निराधारे निरालम्बे नमो नमः ॥ १० ॥
निर्गुणे सगुणे तुभ्यं नमस्तेऽस्तु सरस्वति ।
नीलकेशि नमस्तुभ्यं व्योमकेशि नमोऽस्तु ते ॥ ११ ॥
नमस्ते पार्वतीरूपे नम उत्तरकालिके ।
नमस्ते चण्डयोगेशि चण्डास्ये चण्डनायिके ॥ १२ ॥
जय त्वं चण्डिके भद्रे चामुण्डे त्वां नमाम्यहम् ।
नमस्तुभ्यं महाकाये नमस्ते मातृसंस्तुते ॥ १३ ॥
नमस्ते सिद्धसंस्तुत्ये हरिरुद्रादिपूजिते ।
कालिके त्वां नमस्यामि तवोक्तं गिरिसम्भवे ॥ १४ ॥
फलश्रुतिः –
य एतन्नित्यमेकाग्रः प्रजपेन्मानवोत्तमः ।
स मुच्यते महापापैर्जन्मकोटिसमुद्भवैः ॥ १५ ॥
व्याचष्टे सर्वशास्त्राणि विवादे जयमाप्नुयात् ।
मूकोऽपि ब्रह्मसदृशो विद्यया भवति ध्रुवम् ॥ १६ ॥
एकेन श्रवणेनैव ग्रहेद्वेदचतुष्टयम् ।
महाकविर्भवेन्मन्त्री लभते महतीं श्रियम् ॥ १७ ॥
जगत्त्रयं वशीकुर्यात् महासौन्दर्यवान् भवेत् ।
अष्टैश्वर्याण्यवाप्नोति पुत्रान् पौत्राननुत्तमान् ।
देवीसामीप्यमाप्नोति अन्ते नात्र विचारणा ॥ १८ ॥
इति श्रीत्रिपुरसुन्दरीतन्त्रे श्री कालिका स्तोत्रम् ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

