Sri Shyamala Devi Pooja Vidhanam – श्री श्यामला देवि षोडशोपचार पूजा



पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री श्यामला देवता अनुग्रह प्रसाद सिद्धिद्वारा वाक् स्तम्भनादि दोष निवारणार्थं, मम मेधाशक्ति वृद्ध्यर्थं, श्री श्यामला देवता प्रीत्यर्थं श्रीसूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहिता भव स्थापिता भव ।
सुप्रसन्ना भव वरदा भव ।
स्थिरासनं कुरु प्रसीद प्रसीद ॥
अस्मिन् बिम्बे श्रीश्यामला देवतामावाहयामि स्थापयामि पूजयामि ।

ध्यानम् –
ध्यायेयं रत्नपीठे शुककलपठितं शृण्वतीं श्यामलाङ्गीं
न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीम् ।
कह्लाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां
मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिभालाम् ॥
ओं श्रीश्यामलादेव्यै नमः ध्यायामि ।

आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
सहस्रदलपद्मस्थां स्वस्थां च सुमनोहराम् ।
हरिब्रह्मेन्द्रनमितां तां भजे जगतां प्रसूम् ॥
ओं श्रीश्यामलादेव्यै नमः आवाहयामि ।

आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
अमूल्य रत्नसारं च निर्मितं विश्वकर्मणा ।
आसनं च प्रसन्नं च महादेवि प्रगृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः नवरत्न खचित सुवर्णसिंहासनं समर्पयामि ।

पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
शुद्धगङ्गोदकमिदं सर्ववन्दितमीप्सितम् ।
पापेध्मवह्निरूपं च गृह्यतां परमेश्वरि ॥
ओं श्रीश्यामलादेव्यै नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां
ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
पुष्पचन्दनदूर्वादिसम्युतं जाह्नवीजलम् ।
शङ्खगर्भस्थितं शुद्धं गृह्यतां पद्मवासिनि ॥
ओं श्रीश्यामलादेव्यै नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒
श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्ये-
-ऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
पुण्यतीर्थादिकं चैव विशुद्धं शुद्धिदं सदा ।
गृह्यतां शिवकान्ते च रम्यमाचमनीयकम् ॥
ओं श्रीश्यामलादेव्यै नमः मुखे आचमनीयं समर्पयामि ।

मधुपर्कम् –
कापिलं दधि कुन्देन्दुधवलं मधुसम्युतम् ।
स्वर्णपात्रस्थितं देवि मधुपर्कं गृहाण भोः ॥
ओं श्रीश्यामलादेव्यै नमः मधुपर्कं समर्पयामि ।

पञ्चामृत स्नानम् –
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करादि समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः पञ्चामृतस्नानं समर्पयामि ।

स्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो
वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु
मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
सुगन्धि विष्णुतैलं च सुगन्धामलकीजलम् ।
देहसौन्दर्यबीजं च गृह्यतां श्रीहरप्रिये ॥
ओं श्रीश्यामलादेव्यै नमः शुद्धोदकस्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।

वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
सौन्दर्यमुख्यालङ्कारं सदा शोभाविवर्धनम् ।
कार्पासजं च क्रिमिजं वसनं देवि गृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः वस्त्रयुग्मं समर्पयामि ।

आभरणम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥
रत्नस्वर्णविकारं च देहालङ्कारवर्धनम् ।
शोभादानं श्रीकरं च भूषणं प्रतिगृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः आभरणानि समर्पयामि ।

गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
मलयाचलसम्भूतं वृक्षसारं मनोहरम् ।
सुगन्धयुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः गन्धं समर्पयामि ।

पुष्पाणि –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
नानाकुसुमनिर्मितं बहुशोभाप्रदं परम् ।
सर्वभूतप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः पुष्पाणि समर्पयामि ।

अथ अष्टोत्तरशतनाम पूजा –

श्री श्यामला अष्टोत्तरशतनामावली पश्यतु ।

ओं श्रीश्यामलादेव्यै नमः अष्टोत्तरशतनामपूजां समर्पयामि ।

धूपम् –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसम्युतम् ।
धूपं दास्यामि कल्याणि पवित्रं प्रतिगृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः धूपमाघ्रापयामि ।

दीपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
जगच्चक्षुः स्वरूपं च प्राणरक्षणकारणम् ।
प्रदीपं शुद्धरूपं च गृह्यतां परमेश्वरि ॥
ओं श्रीश्यामलादेव्यै नमः दीपं दर्शयामि ।

नैवेद्यम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
नानोपहाररूपं च नानारससमन्वितम् ।
नानास्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।

ताम्बूलम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ।
जिह्वाजाड्यच्छेदकरं ताम्बूलं देवि गृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚-
-न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
कर्पूरदीपतेजस्त्वं अज्ञानतिमिरापहा ।
देवीप्रीतिकरं चैव मम सौख्यं विवर्धय ॥
ओं श्रीश्यामलादेव्यै नमः नीराजनं समर्पयामि ।

मन्त्रपुष्पम् –
ओं शुकप्रियायै विद्महे श्रीकामेश्वर्यै धीमहि तन्नः श्यामा प्रचोदयात् ॥
सद्भावपुष्पाण्यादाय सहजप्रेमरूपिणे ।
लोकमात्रे ददाम्यद्य प्रीत्या सङ्गृह्यतां सदा ॥
ओं श्रीश्यामलादेव्यै नमः मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिण –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देवी शरणागतवत्सले ।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वरि ।
ओं श्रीश्यामलादेव्यै नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्गमुच्यते ॥
ओं श्रीश्यामलादेव्यै नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।

प्रार्थना –
माणिक्यवीणामुपलालयन्तीं
मदालसां मञ्जुलवाग्विलासाम् ।
माहेन्द्रनीलद्युतिकोमलाङ्गीं
मातङ्गकन्यां मनसा स्मरामि ॥
चतुर्भुजे चन्द्रकलावतंसे
कुचोन्नते कुङ्कुमराग शोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
-हस्ते नमस्ते जगदेकमातः ॥
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कुर्यात्कटाक्षं कल्याणी कदम्बवनवासिनी ॥
जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥
ओं श्रीश्यामलादेव्यै नमः प्रार्थना नमस्कारान् समर्पयामि ।

सर्वोपचाराः –
ओं श्रीश्यामलादेव्यै नमः छत्रं आच्छादयामि ।
ओं श्रीश्यामलादेव्यै नमः चामरैर्वीजयामि ।
ओं श्रीश्यामलादेव्यै नमः नृत्यं दर्शयामि ।
ओं श्रीश्यामलादेव्यै नमः गीतं श्रावयामि ।
ओं श्रीश्यामलादेव्यै नमः आन्दोलिकानारोहयामि ।
ओं श्रीश्यामलादेव्यै नमः अश्वानारोहयामि ।
ओं श्रीश्यामलादेव्यै नमः गजानारोहयामि ।
यद्यद्द्रव्यमपूर्वं च पृथिव्यामतिदुर्लभम् ।
देवभूपार्ह भोग्यं च तद्द्रव्यं देवि गृह्यताम् ॥
ओं श्रीश्यामलादेव्यै नमः समस्त राज्ञीयोपचारान् देव्योपचारान् समर्पयामि ।

क्षमा प्रार्थना –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥

अनया मया कृतेन श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजया भगवती सर्वात्मिका श्रीश्यामलादेवी सुप्रीता सुप्रसन्ना वरदा भवन्तु ॥

तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं मातृपादोदकं शुभम् ॥
ओं श्रीश्यामलादेव्यै नमः प्रसादं शिरसा गृह्णामि ।

विसर्जनम् –
इदं पूजा मया देवि यथाशक्त्युपपादिताम् ।
रक्षार्थं त्वं समदाय व्रजस्थानमनुत्तमम् ॥
ओं श्रीश्यामलादेव्यै नमः यथास्थानमुद्वासयामि ।

ओं शान्तिः शान्तिः शान्तिः ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed